TBD.
ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्य आचार्यस्य मतेन अशि परतः। भो अत्र। भगो अत्र। भो इदम्। भगो इदम्। नित्यार्थो ऽयम् आरम्भः। गार्ग्यग्रहणं पूजार्थम्। यो ऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सो ऽनेन निवर्त्यते। लघुप्रयत्नतरः तु भवत्येव यकारः। भो अत्र भोयत्र। भगो अत्र, भगोयत्र। अघो अत्र, अघोयत्र। केचित् तु सर्वम् एव यकारम् अत्र न इच्छन्ति।
TBD.
–
168 अतो गाग्र्यस्य। `ओत' इति पञ्चमी। `व्यो'रित्यतो यग्रहणमनुवत्र्तते, नतु वकारोऽपि, ओतः परस्य तस्याऽसंभवात्। `पदस्ये' त्यधिकृतं यकारेण विशेष्यते, ततस्तदन्तविधिः। तेन ओकारात्परो यो यकारस्तदन्तस्य पदस्येति चार्थो लभ्यते। अलोऽन्त्यपरिभाषया च पदान्तस्य यकारस्येति फलितम्। `भोभगो' इत्यतोऽशीत्यनुवर्तते। `लोपश्शाकल्यस्ये'त्यतो `लोप' इत्यनुवर्तते। सच पूर्वविगितलघुप्रयत्नस्य न भवति, विधानसामथ्र्यात्, तदाह–ओकारादिति। ननु लोपस्य कथं नित्यत्वं, `गाग्र्य'ग्रहणादित्यत आह–गाग्र्यग्रहणमिति। व्याख्यानादिति भावः। भो अच्युतेति। अलघुप्रयत्नपक्षे यकारस्य नित्यं लोपः। लघुप्रयत्नपक्षे-भोयज्युतेति। अत्र लघु प्रयत्नस्य विधिसामथ्र्यान्न लोपः। तोयमिति। अत्र यकारस्य पदान्तत्वाभावादोतो गाग्र्यस्येति न भवति। अनेनाऽत्र `भोभगो' इति नानुवर्तते इति सूचितम्।
138 विधानसामथ्र्याल्लघुप्रयत्नतरस्य न भवतीत्याशयेनाह-अलघुप्रत्नयस्येति। भोयच्युतेति। एवं भगोयच्युत। अघोयच्युत। वकारस्योदाहरणं तु-`असावादित्यः'। एतच्च
TBD.
यां स्पष्टम्।
TBD.