TBD.
युष्मत् तत् ततक्षुसित्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति, स चेत् सकारो ऽन्तःपादं भवति। युष्मदादेशाः त्वम्, त्वाम्, ते, तव। अग्निष्ट्वं नामासीत्। त्वा अग्निष्ट्वा वर्धयामसि। ते अग्निष्टे विश्वमानय। तव अप्स्वग्ने सधिष्टव। तत् अग्निष्टद् विश्वमापृणाति। ततक्षुस् द्यावापृथिवी निष्टतक्षुः। अन्तःपादम् इति किम्? यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जतवेदा विच।
TBD.
–
1306 ह्यस्वात्तादौ। `इण्को'रित्यत इण्ग्रहणमनुवर्तते। `सहेः साडः स' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तते। `अपदान्तस्य मूर्धन्यः' इति च। तदाह–ह्यस्वादिण इति। निष्ट\उfffद् इति त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः।\र्\नरण्याण्ण्य इति। `वक्तव्य' इति शेषः। आरण्याः सुमनस इति। `स्तिरयः सुमनसः पुष्प'मित्यमरः। अरण्ये भवा इत्यर्थे णप्रत्यये टापि `आरण्या' इति रूपम्। अणि तु ङीप् स्यादिति भावः।
वाऽर्थः। दूरादित्यव्ययादेत्यप्रत्ययेऽव्ययानां भमात्रे इति टिलोपः।\र्\नुत्तरादाहञिति। `वाच्य' इति शेषः। औत्तराह इति। उत्तरस्मादागतः, उत्तरस्मिन् भव इति वाऽर्थः। औत्तर इति त्वसाधु।
1046 ह्यस्वात्तादौ। पदान्तत्वात्षत्वस्याऽप्राप्तावयमारम्भः। आदिग्रहणं तु व्यर्थं, `यस्मिन्विधि'रित्येव सिद्धेः। ह्वस्वांत्किम्?। गीस्तराम्। धूस्तराम्। तदौ किम्?। सर्पिःसाद्भवति। तद्धिते किम्?। सर्पिस्तरति। `तिङन्तस्य प्रतिषेधो वाच्यः'। भिन्द्युस्तरम्। इत्यादिरर्थः।\र्\नुत्तरादाहञ्। औत्तराह इति। इहाद्युदात्तत्वं स्त्रियां टाप्च बोध्यः। यदा तु `उत्तराच्च'त्याहिप्रत्यये ततोऽण्क्रियते, `अमेहे'ति परिगणनेन त्यपोऽभावात्, तदा औत्तराहशब्दोऽन्तोदात्तः, स्त्रियां ङीप्च विशेषः।
TBD.