Table of Contents

<<8-2-83 —- 8-2-85>>

8-2-84 दूराद् धूते च

प्रथमावृत्तिः

TBD.

काशिका

दूराद् धूते यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति, स च उदात्तः। आह्वानं हूतम्, शब्देन सम्बोधनम्। आगच्छ भो माणवक देवदत्त3। आगच्छ भो माणवक यज्ञदत्त3। दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत् तदाश्रीयते इति यत्र प्राकृतात् प्रयत्नाद् यत्नविशेषे आश्रीयमाणे शब्दः श्रूयते तद् दूरम्। हूतग्रहण च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम्। तेन यत्र अप्याह्वानं न अस्ति तत्र अपि प्लुतिर् भवति, सक्तून् पिब देवदत्त3, पलायस्व देवदत्त3 इति। अस्याश्च प्लुतेरेकश्रुत्या समावेशः इष्यते। दूरातिति किम्? आगच्छ भो माणवक देवदत्त। दूरादाह्वाने वाक्यस्यान्ते यत्र सम्बोधनपदं भवति तत्र अयं प्लुतः इष्यते, तेन इह न भवति, देवदत्त आगच्छ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

49 दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा..

बालमनोरमा

96 दूराद्धूते च। यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारितं बोध्यमानो न श्रृणोति किं त्वधिकं प्रयत्नमपेक्षते तद्दूरम्। हूतमाह्वानं। भावे क्तः। तच्च सम्बोधनमिह विवक्षितम्। `वाक्यस्य टेः प्लुत उदात्त' इत्यधिकृतम्। तदाह-दूरात्सम्बोधन इत्यादिना। यदि तु आह्वानमेवात्रं विवक्षितं स्यात्तर्हि एहि देवदत्तेत्यादावाह्वानवाचकपदे सत्येव स्यात्। सम्बोधनपरत्वे तु तदन्यत्रापि भवतीत्यभि प्रेत्योदाहरति–सक्तूनिति।

तत्त्वबोधिनी

77 दूराद्धूते च। हूतमाह्वानं, तच्च संबोधनमात्रोपलक्षणमित्याह–दूरात्संबोधन इति। उपलक्षणतया व्याख्यानस्य फलमुदाहरति-सक्तन्पिवेत्यादि।

Satishji's सूत्र-सूचिः

TBD.