Table of Contents

<<8-2-59 —- 8-2-61>>

8-2-60 ऋणम् आधमर्ण्ये

प्रथमावृत्तिः

TBD.

काशिका

ऋणम् इति ऋ इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते आधमर्ण्यविषये। अधमः ऋणे अधमर्णः, एतस्मादेव निपातनात् सप्तम्यन्तेन उत्तरपदेन समासः, तद्भावः आधमर्ण्यम्। यद्येवम्, उत्तमर्णः इति न सिध्यति? न एष दोषः। कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम्। तेन उत्तमर्णः इत्यपि हि भवति। ऋणं ददाति। ऋणं धारयति। आधमर्ण्ये इति किम्? ऋतं वक्ष्यामि नानृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

850 ऋणमाधमण्र्ये। अधमर्णस्य कर्म - आधमण्र्यम्। आधमण्र्यव्यवहारे इति। स च अन्यदीयं द्रवयं गृहीतमियता कालेन इयत्या वृद्ध्या प्रतिदीयते इति संविद्रूपः, तस्मिन्विषये इत्यर्थः। ऋतमन्यदिति। सत्यमित्यर्थः।

तत्त्वबोधिनी

696 ऋणमाधमण्र्ये। अधमं दुःखप्रदमृणमस्य सोऽधमर्णः, तस्य भाव आधमण्र्य। तेन व्यवहारविशेषो लक्ष्यते। ततश्च उत्तमर्णोऽपि सिध्यतीत्याशयेन व्याचष्टे– - अधमर्णव्यहार इति। स च व्यवहारो दातृग्रहीत्रोः संबन्धी भवतीत्युत्तमर्णोऽपि प्रयोगो न विरुध्यते। लक्षणायां तु `धारेरुत्तमर्णः' इति निर्देशो लिङ्गम्।

Satishji's सूत्र-सूचिः

TBD.