TBD.
भित्तम् इति निपात्यते शकलं चेत् तद् भवति। भित्तं तिष्ठति। भित्तं प्रपतति। शकलपर्यायो ऽयम्। अत्र भिदिक्रिया शब्दव्युत्पत्तेरेव निमित्तम्। भिदिक्रियाविवक्षायां हि शकलविषये भिन्नम् भित्तम् इत्येव भवति।
TBD.
–
849 भित्तं शकलम्। शकले वाच्ये भिदेः क्तस्य नत्वाऽभावो निपात्यते। शकलत्वजातिविशिष्टेऽवयवार्थमनपेक्ष्य रूढोऽयम्। ततश्च भित्तशकलयोः पर्यायत्वान्न सहप्रयोगः। भिदिक्रियाविवक्षायां तु `भित्तं भिन्न'मिति भवतीति भाष्ये स्पष्टम्।
695 भित्तं शकलम्। भिदेः क्ते `रदाभ्या'मिति प्राप्तनत्वस्याऽभावो निपात्यते। `भित्तं शकलखण्डे वा' इत्यमरः। भिन्नमन्यदिति। विदीर्ममित्यर्थः।
TBD.