Table of Contents

<<8-2-57 —- 8-2-59>>

8-2-58 वित्तो भोगप्रत्यययोः

प्रथमावृत्तिः

TBD.

काशिका

वित्तः इति विदेर् लाभार्थातुत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये च अभिधेये। वित्तमस्य बहु। धनम् अस्य बहु इत्यर्थः। धनं हि भुज्यते इति भोगो ऽभिधीयते। प्रत्यये वित्तो ऽयं मनुष्यः। प्रतीतः इत्यर्थः। प्रतीयते इति प्रत्ययः। भोगप्रत्यययोः इति किम्? विन्नः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

848 वित्तो भोग। भुज्यत इति भोगः– भोग्यम्। प्रतीयते इति प्रत्ययः– प्रख्यातः। अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम्। तदाह– विदन्तेरिति। निपातोयमिति। `नुदविदोन्दे' ति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः। तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः। प्रतीते इति। प्रख्याते इत्यर्थः। वित्तः पुरुष इति। प्रख्यात इत्यर्थः। विन्न इति। लब्धश्चोरादिरित्यर्थः। अत्र `यस्य विभाषे'ति इण्निषेदमुपपादयति– विभाषा गमेति। `एकाच' इति निषेधाच्चेत्यपि बोध्यम्।

तत्त्वबोधिनी

694 वित्तो। ज्ञानार्थकाद्विदेरिटा भाव्यं, सत्तार्थकविदेर्विचारणार्थकविदेश्च भोगप्रत्ययोर्वृत्तिर्न संभवतीत्याशयेनाह– विन्दतेरिति। विद्लृ लाभ इत्यस्येत्यर्थः। भुज्यत इति भोगः। प्रतीयत इति प्रत्यय इति कर्मसाधनावेतावितिव्याचष्टे- भोगे प्रतीते चार्थ इति।

Satishji's सूत्र-सूचिः

TBD.