Table of Contents

<<8-2-55 —- 8-2-57>>

8-2-56 नुदविदौन्दत्राघ्राह्रीभ्यो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्यः उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम्। नुद नुन्नः, नुत्तः। विद विन्नः, नित्तः। उन्द समुन्नः, समुत्तः। त्रा त्राणः, त्रातः। घ्रा घ्राणः, घ्रातः। ह्री ह्रीणः, ग्रीतः। ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते। विद विचारणे इत्यस्य विदेरिह ग्रहणम् इष्यते। एवं ह्युक्तम् वेत्तेस्तु विदितो निष्ठा विद्यतेर् विन्न इष्यते। विनतेर् विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः। इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

844 नुदविदोन्द। ह्यीधातोरप्राप्ते, इतरेभ्यो नित्यं प्राप्ते न्तवविकल्पोऽयम्। रौधादिक इति। `विद विचारणे' इत्ययमित्यर्थः। वेत्तेस्त्विति। `विद ज्ञाने' इत्यस्येत्यर्थः। अयं सेट्, अनिट्केष्वनन्तर्भावात्। तदाह– विदित इति। अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वं नेति भावः। विद्यतेर्विन्न इति। `विद सत्ताया'मित्ययमनिट्। `रदाभ्या'मिति नित्यं नत्वमिति भावः। उन्दीति। उदाहरणसूचनम्।

तत्त्वबोधिनी

692 नुदविदो। `रदाभ्यां' `संयोगादेरातः' इति नित्ये प्राप्ते, ह्यीत्यस्याऽप्राप्ते उभयत्र विभाषेयम्। वेत्तेस्त्विति। तथा च भाष्यम्– - वेत्तेस्तु विदितो निष्ठा विद्यतेर्विघ्न इष्यते। विन्तेर्विन्नश्च वित्तश्च भोगे वित्ततश्च विदन्तेः' इति। नुन्नः नुत्त इति। `अनिदिता'मिति नलोपः।

Satishji's सूत्र-सूचिः

TBD.