Table of Contents

<<8-2-48 —- 8-2-50>>

8-2-49 दिवो ऽविजिगीषायाम्

प्रथमावृत्तिः

TBD.

काशिका

दिवः उत्तरस्य निष्थातकारस्य नकारादेशो भवति अविजिगीषायम् अर्थे। अद्यूनः। परिद्यूनः। अविजिगीषायाम् इति किम्? द्यूतं वर्तते। विजिगीषया हि तत्र अक्षपातनादि क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

836 दिवो। `अविजिगीषाया'मिति च्छेदः। द्यून इति। स्तुत इत्यर्थः। `च्छ्वो'रित्यूठ्। विजिगीषायां तु द्यूतमिति। द्यूतस्य विजिगीषया प्रवृत्तेरिति भाव-।

तत्त्वबोधिनी

685 द्यून इति। `च्छ्वोः शू'डित्यूठ्। क्षीण इत्यर्थः। द्यूतमिति। विजिगीषया हि तत्राऽक्षाः पात्यन्ते इति गम्यते विजिगीषा।

Satishji's सूत्र-सूचिः

TBD.