Table of Contents

<<8-2-41 —- 8-2-43>>

8-2-42 रदाभ्यां निष्थातो नः पूर्वस्य च दः

प्रथमावृत्तिः

TBD.

काशिका

रेफदकाराभ्याम् उत्तरस्य निष्ठातकारस्य नकारः आदेशो भवति पूर्वस्य च दकारस्य। रेफान्तात् तावत् आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। निगीर्णम्। अवगूर्णम्। दकारात् भिन्नः। भिन्नवान्। धिन्नः। छिन्नवान्। रदाभ्याम् इति किम्? कृतः । कृतवान्। रः इत्यत्र रश्रुतिसाम् अन्यं न उपादीयते, किं तर्हि, व्यञ्जनमात्रम्। रेफसामान्यनिर्देशे ऽपि सति रेफात् परा या ऽज्भक्तिस् तद्व्यवधानान्नत्वं न भवति। निष्ठा इति किम्? कर्ता। हर्ता। तः इति किम्? चरितम्। मुदितम्। पूर्वस्य इति किम्? परस्य मा भूत्, भिन्नवद्भ्याम्। भिन्नवद्भिः। इह कृतस्य अपत्यं कार्तिः इति वृद्धेः बहिरङ्गलक्षणाया असिद्धत्वान्नत्वे कर्तव्ये रेफस्य असिद्धत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

819 रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च.. शृ हिंसायाम्.. ऋत इत्. रपरः. णत्वम्. शीर्णः. भिन्नः. छिन्नः..

बालमनोरमा

826 रदाभ्यां। रदाभ्यामित्यकारावुच्चारणाऽर्थौ। तदाह– रेफदकाराभ्यामिति। निष्ठायाः - त्- निष्ठात्, तस्य निष्ठात इति विग्रहः। तदाह– निष्ठातस्येति। निष्ठातकारस्येत्यर्थः। नः स्यादिति। नकारः स्यादित्यर्थः। सूत्रे `न' इति प्रथमान्तम्। अकार उच्चारणार्थः। दकारसय्चेति `नकार'इत्यनुषज्यते। सूत्रे `द' इति षष्ठ\उfffद्न्तमिति भावः। चरितम् उदितमित्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाऽभावात्। रेफात्परस्योदाहरति– श इति। शृ? धातोः क्तप्रत्ययसूचनमिदम्।ननु कृतस्यापत्यं कार्तिः। अत इञ् , आदिवृद्धिः, रपरत्वम्। अत्रनिष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह– बहिरङ्गत्वेनेति। दात्परस्योदाहरति– छिन्नः भिन्न इति। अत्र निष्टातकारस्य, धात्वन्तदकारस्यच नत्वमिति भावः।

तत्त्वबोधिनी

679 रदाभ्याम्। इह रदाभ्यामित्यनेन तकारो विशेष्यते, न निष्ठा, तेन चरितमुदितमित्यत्र न , तकारस्येटा व्यतत्वात्। तदेतदाह– परस्य निष्ठातस्येति। बहिरङ्गत्वेनेति। निष्ठातकाराद्बहिर्भूतं तद्धितञित्प्रत्ययमाश्रित्याऽङ्गस्यादेरचो विधीयमानत्वाद्वृद्धिर्बहिरङ्गेति भावः। द्राण इति। द्रा कुत्सायां गतौ। ग्लानः म्लान इति। ग्लौ म्लै हर्षक्षये।

Satishji's सूत्र-सूचिः

Video

वृत्तिः रदाभ्‍यां परस्‍य निष्‍ठातस्‍य नः स्‍यात् निष्‍ठापेक्षया पूर्वस्‍य धातोर्दस्‍य च । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a रेफ: or a दकार: and also in place of a दकार: which immediately precedes a निष्ठा affix.

Thus there are two cases:
(i) The तकार: of a निष्ठा affix is immediately following a रेफ:। In this case the तकार: is replaced by a नकार:।
(ii) The तकार: of a निष्ठा affix is immediately following a दकार:। In this case the तकार: (of the निष्ठा affix) as well as the दकार: (of the धातु:) is replaced by a नकार:।

उदाहरणम् -

प्रातिपदिकम् “छिन्न” derived from the verbal root √छिद् (छिदिँर् द्वैधीकरणे ७. ३). The “इर्” at the end of the verbal root gets the इत्-सञ्ज्ञा by the वार्तिकम् “इर इत्सञ्ज्ञा वाच्या” and takes लोप: by 1-3-9.
छिद् + क्त 3-2-102, 1-1-26, 3-4-70
= छिद् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-86.
= छिन् + न 8-2-42
= छिन्न । “छिन्न” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

प्रातिपदिकम् “कीर्ण” derived from the verbal root √कॄ (विक्षेपे ६. १४५).
कॄ + क्त 3-2-102, 1-1-26, 3-4-70
= कॄ + त 1-3-8, 1-3-9. Note: 7-2-10 cannot stop 7-2-35 here.

Example continued under 7-2-11