Table of Contents

<<8-2-13 —- 8-2-15>>

8-2-14 राजन्वान् सौराज्ये

प्रथमावृत्तिः

TBD.

काशिका

राजन्वानिति निपात्यते सौराज्ये गम्यमाने। शोभनो राजा यस्मिन्निति स राजन्वान् देशः। राजन्वती पृठ्वी। राजवानित्येव अन्यत्र।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1877 राजन्वान् सौराज्ये। सु=शोभनोराजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम्। तस्मिन्नर्थे राजन्शब्दान्मतुपि `मादुपधायाः' इति वत्वं सिद्धम्। नलोपाऽभावो निपात्यते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.