Table of Contents

<<8-2-107 —- 8-3-1>>

8-2-108 तयोर् य्वावचि संहितायाम्

प्रथमावृत्तिः

TBD.

काशिका

तयोः इदुतोः यकारवकारादेशौ भवतो ऽचि संहितायां विषये। संहितायाम् इत्येतच् चाधिकृतम्। इत उतरम् आध्यायपरिसमाप्तेः यद् वक्ष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। अग्ना3याशा। पटा3वाशा। अग्ना3यिन्द्रम्। पटा3वुदकम्। अचि इति किम्? अग्ना3इ। पटा3उ। संहितायाम् इति किं? अग्ना3इ इन्द्रम्। पटा3उ उदकम्। इदुतोरसिद्धत्वातिको यणचि 6-1-77 इति न प्राप्नोति इत्ययम् आरम्भः। अथापि कथञ्चित् तयोः सिद्धत्वं स्यात्, एवम् अपि स्वर्णदीर्घत्वनिवृत्त्यर्थं शाकलनिवृत्त्यर्थं च वक्त्वयम् एतत्। अथापि तन् निवृत्त्यर्थं यत्नान्तरम् अस्ति, तथापि यण्स्वरनिवृत्त्यर्थम् इदम् आरभ्यते। यणादेशस्य असिद्धत्वातुदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8-2-4 इत्येष स्वरो न भवति। किं नु यणा भवति इह न सिद्धं य्वाविदुतोर्यदयं विदधाति। तौ च मम स्वरसन्धिषु सिद्द्धौ शाकलदीर्घविधी तु निवर्त्यौ। इक् तु यदा भवति प्लुतपूर्वस् तस्य यणं विदधात्यपवादम्। तेन तयोश्च न शाकलदीर्घौ यण्स्वरबधनम् एव तु हेतुः। इति श्रीवामनविरचितायां काशिकायां वृत्तौ अष्टमाध्यायस्य द्वितीयः पादः। अष्टमाध्यायस्य तृतीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.