Table of Contents

<<8-2-106 —- 8-2-108>>

8-2-107 एचो ऽप्रगृह्यस्य अदूराध्दूते पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ

प्रथमावृत्तिः

TBD.

काशिका

एचो ऽप्रगृह्यस्य अदूराद् धूते प्लुतविषयस्य अर्धस्य अकारः आदेशो भवति, स च प्लुतः, उत्तरस्ये कारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम् प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवदयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्ते अगम3ः पूर्वा3न् ग्रामा3नग्निभूता3इ, पटा3उ। अभिपूजिते भद्रं करोषि माणवक3 अग्निभूता3इ, पटा3उ। विचार्यमाणे होतव्यं दीक्षितस्य गृहा3इ प्रत्यभिवादे आयुष्मानेधि अग्निभूता3इ, पटा3उ। याज्यान्ते उक्षन्नाय वशान्नाय सोमपृष्ठाय वेधसे। स्तोवैर्विधेमाग्नया3इ। सो ऽयम् आकरः प्लुतो यथाविषयम् उदात्तो ऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभूते3 घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभूते। परिगणने च सति अदूराद् धूते इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत्, भद्रं करोषि गौः इति। अप्रगृह्यस्य इति किम्? शोभने खलु स्तः खट्वे3। आमन्त्रिते छन्दसि प्लुतविकरो ऽयं वक्तव्यः। अग्ना3इ पत्नी वा3इ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.