Table of Contents

<<8-2-105 —- 8-2-107>>

8-2-106 प्लुतावैच इदुतौ

प्रथमावृत्तिः

TBD.

काशिका

दूराद्धूतादिषु प्लुतो विहितः। तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूतौ इदुतौ प्लुतौ। ऐ3तिकायन। औ3पमन्यव। अत्र यदेवर्णोवर्णयोः अवर्णस्य च संविभागः, तदा इदुतौ द्विमात्रावनेन प्लुतौ क्रियेते। प्लुतौ इति हि क्रियानिमित्तो ऽयं व्यपदेशः। इदुतौ प्लवेते वृद्धिं गच्छतः इत्यर्थः। तावती च सा प्लुतिर् भवति यया तावेचौ त्रिमात्रौ सम्पद्येते। यदा तु अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः, तदा तौ अर्धतृतीयमात्रौ क्रियेते इति। भष्ये तु उक्तम्, इष्यते एव चतुर्मात्रः प्लुतः इति। तत् कथम्? समप्रविभागपक्षे इदुतोरनेन त्रिमात्रः प्लुतो विधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.