Table of Contents

<<8-1-66 —- 8-1-68>>

8-1-67 पूजनात् पूजितम् अनुदात्तं काष्ठादिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

पूजनेभ्यः काष्ठादिभ्यः उत्तरपदं पूजितम् अनुदात्तं भवति। काष्ठ काष्ठाध्यापकः। काष्ठाभिरूपकः। दारुण दारुणाध्यापकः। दारुणाभिरूपकः। अमातापुत्र अमातापुत्राध्यापकः। अयुत अयुताभिरूपकः। अयुताध्यापकः। अद्भुत अद्भुताध्यापकः। अनुक्त अनुक्ताध्यापकः। भृश भृशाध्यापकः। घोर घोराध्यापकः। परम परमाध्यापकः। सु स्वध्यापकः। अति अत्यध्यापकः। मलोपश्च। इति वार्तिककारमतम्। मयूरव्यंसकादित्वात् समासः। समासे च एतदनुदात्तत्वम्। समासान्तोदात्तत्वापवाद इष्यते। दारुणम् अध्यापकः इत्येवम् आदिषु न भवति। मलोपश्च इत्यनेन अप्ययम् एव विषय आख्यायते, यत्र विभक्तेरभावात् मकारो न श्रूयते तत्र औदात्तत्वम् इति। असमासे हि मलोपो न एव इष्यते। दारुणंधीते दारुणमध्यायकः इति। पूजनातित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणम् अनन्तरपूजितप्रतिपत्त्यर्थं। एतदेव ज्ञापकम् इह प्रकरणे पञ्चमीनिर्देशे ऽपि नानन्तर्यमाश्रीयते इति। तथा च यद्वृत्तान् नित्यम् 8-1-66 इत्यत्र उदाहृतम्। अनुदात्तम् इति वर्तमाने पुनरनुदात्तग्रहणम् प्रतिषेधनिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.