Table of Contents

<<8-1-65 —- 8-1-67>>

8-1-66 यद्वृत्तान् नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

प्रथमा, छन्दसि इति निवृत्तम्। निघातप्रतिषेध इत्येव। यदो वृत्तं यद्वृत्तम्। यत्र पदे यच्छब्दो वर्तते तत्सर्वं यद्वृत्तम्। इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्। डतरडतमौ च प्रत्ययौ इत्येतन् न अश्रीयते। तस्माद् यद् वृत्तादुत्तरं तिङन्तं नानुदात्तम् भवति नित्यम्। यो भुङ्क्ते। यं भोजयति। येन भुङ्क्ते। यस्मै ददाति। यत्कामास्ते जुहुमः। यद्रियङ् वायुर्वाति यद् वायुः पवते। पञ्चमीनिर्देशे ऽप्यत्र व्यवहिते कार्यमिष्यते। याथाकाम्ये वेति वक्तव्यम्। यत्र क्वचन यजन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.