Table of Contents

<<8-1-57 —- 8-1-59>>

8-1-58 चादिषु च

प्रथमावृत्तिः

TBD.

काशिका

चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति। चादयः न चवाहाहैवयुक्ते 8-1-24 इत्यत्र ये निर्दिष्टाः, ते इह परिगृह्यन्ते। चशब्दे तावत् देवदत्तः पचति च खादति च। वा देवदत्तः पचति वा खादति वा। ह देवदत्तः पचति ह खादति ह। अह देवदत्तः पचत्यह खादत्यह। एव देवदत्तः पचत्येव खादत्येव। अगतेरित्येव, देवदत्तः प्रपचति च प्रखादति च प्रखादति च। प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमा इति निघातः प्रतिषिद्यते एव, परं तु निहन्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.