TBD.
च वा ह अह एव एभिर् युक्ते युष्मदस्मदोः वान्नावादयोः न भवन्ति। पुर्वेण प्रकारेण प्राप्ताः प्रतिषिध्यन्ते। ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्, युष्माकं च स्वम्, अस्माकं च स्वम्। ग्रामस् तुभ्यां च दीयते, ग्रामो मह्यं च दीयते, युवाभ्यां च दीयते, आवाभ्याम् च दीयते, युष्मभ्यं च दीयते, अस्मभ्यं च दीयते। ग्रामस्त्वां च पशयति, ग्रामो मां च प्शयति, युवां च पश्यति, आवां च पश्यति, युष्मांश्च पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति। वा ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्, युवयोर् वा स्वम्, आवयोर् वा स्वम्, युष्माकं वा स्वम्, अस्माकं वा स्वम्। ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते, युवाभ्यां वा दीयते, आवाभ्यां वा दीयते, युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते। ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति, युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति। ह ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्, युवयोर् ह स्वम्, आवयोर् ह स्वम्, युष्माकं ह स्वम्, अस्माकं ह स्वम्। ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते, युवाभ्यां ह दीयते, आवाभ्यां ह दीयते, युष्मभ्यां ह दीयते, अस्मभ्यं ह दीयते। ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति, युवां ह पश्यति, आवां ह पश्यति, युष्मान् ह पश्यति, अस्मान् ह पश्यति। अह ग्रामस्तव अह स्वम्, ग्रामो मम अह स्वम्, युवयोरह स्वम्, आवयोरह स्वम्, युष्माकम् अह स्वम्, अस्माकमह स्वम्। ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यम् अह दीयते, युवाभ्याम् अह दीयते, आवाभ्याम् अह दीयते, युष्मभ्यम् अह दीयते, अस्मभ्यम् अह दीयते। ग्रामस्त्वाम् अह पश्यति, ग्रामो माम् अह पश्यति, युवाम् अह पश्यति, आवाम् अह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति। एव ग्रामस्तव एव स्वम्, ग्रामो मम एव स्वम्, युवयोरेव स्वम्, आवयोरेव स्वम्, युष्माकम् एव स्वम् अस्माकम् एव स्वम्। ग्रामस्तुभ्यम् एव दीयते, ग्रामो मह्यम् एव दीयते, युवाभ्याम् एव दीयते, आवाभ्याम् एव दीयते, युष्मभ्यम् एव दीयते, अस्मभ्यम् एव दीयते। ग्रांस्त्वाम् एव पश्यति, ग्रामो माम् एव पश्यति, युवाम् एव पश्यति, आवाम् एव पश्यति, युष्मानेव पश्यति, अस्मानेव पश्यति। युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्। युक्तयुक्ते प्रतिषेधो न भवति। ग्रामश्च ते स्वम्, नगरं च मे स्वम्।
TBD.
–
न चवाहा। च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे, एतेषां द्वन्द्वः युक्त इति भावे क्तः। तदाह–चादिपञ्चकयोगे इति। पञ्चानामन्यतमेन योगे इत्यर्थः। एते इति। वांनावादय इत्यर्थः। `युष्मदस्मदोः षष्ठी'त्यादिसूत्रेभ्यस्तत्तदनुवृत्तेरिति भावः। इत्यादीति। `कृष्णो मम हा प्रसीदति'। अद्भुतमिदमित्यर्थः। `कृष्णो ममाऽह न प्रसीदति '। अहेति खेदे। कृष्णो ममैव सेव्यः। ननु ` न चवाहाहैवैः' इत्येवास्तु, मास्तु युक्तग्रहणम्। `वृद्धो यूना' इत्यादिवत्तृतीययैव तल्लाभादित्यत आह–युक्तग्रहणादिति। अत्र चाद्यर्थैः समुच्चयादिभिर्युष्मदस्मदर्थोः साक्षादन्वयस्तत्रैवायं निषेध इत्यर्थः। हरो हरिश्चेति। अत्र `च' शब्दस्य हरिहरियोः साक्षादन्वयः। समुच्चितयोर्हरिहरियोः स्वामीत्यत्रान्वयः। `स्वामी'त्यस्य मे इत्यनेनान्वयः। ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाऽभावान्मेआदेशस्य निषेधो नेति भावः।
359 युक्तग्रहणादिति। यत्र युष्मदस्मदर्थगतान् समुच्चयादींश्चादयो द्योतयन्ति तदा चादिभिः सहाऽर्थद्वारा युष्मदस्मदोः साक्षाद्योगः, तत्रैवायं निषेध इत्यर्थः। हरो हरिश्चेति। अत्र `च'शब्दो हरहरिगतसमुच्चयमाह। हरिहराभ्यां त्स्मदः सम्बन्धो, नतु समुच्चयेनेति न साक्षाद्योगः किंतु परम्परायोग इति न निषेध इति भावः। पश्यार्थैश्चाऽना। अकएव निपातनाद्भावे `पघ्राघ्माधे'डिति शः। दर्शनं पश्यः। तच्चेह ज्ञानमात्रम्। `अदर्शनं लोपः'इत्यत्र यथा, न तु चाक्षुषज्ञानमेव, `अनालोचने'इति निषेधात्।
229) न चवाहाहैवयुक्ते 8-1-24
वृत्ति: च, वा, ह, अह, एव एभिर् युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति। If any of the five च, वा, ह, अह, एव are joined to a form of the word “युष्मद्” or “अस्मद्”, the above replacements that have been ordained will not take place.
उदाहरणम् – हरिस्त्वां मां च रक्षतु। – Here, the त्वाम् and माम् cannot be replaced by त्वा and मा because they are in combination with च.
वार्त्तिकम् - समानवाक्ये युष्मदस्मदादेशा वक्तव्याः।
वृत्ति: The above replacements that have been ordained in the place of “युष्मद्” and “अस्मद्” will happen only within a single sentence.
उदाहरणम् – ओदनं पच तव भविष्यति। – Here by the maxim “एकतिङ् वाक्यम्”, there are two sentences (ओदनं पच and तव भविष्यति). So here तव will not get replaced by ते because the पदम् that precedes it does not belong to the same sentence.
वार्त्तिकम् - एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः।
वृत्ति: When not used in अन्वादेशः, the above ordained replacements for “युष्मद्” and “अस्मद्” happen optionally. They happen always if युष्मद् and अस्मद् are used in अन्वादेशः.
उदाहरणम् – धाता ते भक्तोऽस्ति। धाता तव भक्तोऽस्ति। – Brahma is your devotee. Here because we do not have अन्वादेशः, तव gets ते as a replacement optionally.
योऽग्निर्हव्यवाट् तस्मै ते नमः – You, the fire that carries the sacrificial materials, salutations to you. Here since there is अन्वादेशः we always have ते instead of the form तुभ्यम्.