Table of Contents

<<8-1-4 —- 8-1-6>>

8-1-5 परेर् वर्जने

प्रथमावृत्तिः

TBD.

काशिका

परि इत्येतस्य वर्जने ऽर्थे द्वे भवतः। परि परि त्रिगर्तेभ्यो वृष्टो देवः। परि परि सौवीरेभ्यः। परि परि सर्वसेनेभ्यः। वर्जनें परिहारः। वर्जने इति किम्? ओदनं परिषिञ्चति। परेर् वर्जने ऽसमासे वेति वक्तव्यम्। परि परि त्रिगर्तेभ्यो वृष्टो देवः, परि त्रिगर्तेभ्यः। समासे तु तेन एव उक्तत्वाद् वर्जनस्य न एव भवति, परित्रिगर्तं वृष्टो देवः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

परेर्वर्जने। वर्जने वर्तमानस्य परीत्यस्य द्वे स्त इत्यर्थः। परि परि वङ्गेभ्यो वृष्ट इति। `पर्जन्य' इति शेषः। `अपपरी वर्जने' इति परिः कर्मप्रवचनीयः। `पञ्चम्यपाङ्परिभि'रिति पञ्चमी। `परि हरेः संसारः' इत्यत्र तु `परेरसमासे इति वक्तव्य'मिति वार्तिकान्नद्विर्वचनम्।

तत्त्वबोधिनी

1591 परेर्वर्जने। अत्र वार्तिकं—`परेर्वर्जनेऽसमासे'। नेह—परित्रिगर्तं वृष्टो देवः। `वेति च वक्तव्यम्'। तथा च अप हरेः परि हरेः संसार इति कारकेषूदाह्मतम्। वर्जने'इति कर्मप्रवचनीयसंज्ञायां `पञ्चम्यपाङ्परिभि'रिति पञ्चमी।

Satishji's सूत्र-सूचिः

TBD.