Table of Contents

<<8-1-34 —- 8-1-36>>

8-1-35 छन्दस्यनेकम् अपि साकाङ्क्षम्

प्रथमावृत्तिः

TBD.

काशिका

हि च इति वर्तते। छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षंअने कम् अपि नानुदात्तं भवति, एकम् अपि। कदाचिदेकं कदाचिदनेकम् इत्यर्थः। तत्र अनेकं तावत् अनृतं हि मत्तो वदति, पाप्मा एनं विपुनाति। तिङन्तद्वयम् अप्येतन् न निहन्यते। एकं खल्वपि अग्निर् हि पूर्वमुदजयत् तमिन्द्रो ऽनूदजयत् तिङन्तद्वयम् अपि हिशब्दयुक्तम् एतत्। तत्र एकम् उदजयतित्याद्युदात्तम्, अपरम् अनुदात्तम्। अजा ह्यग्नेरजनिष्ट गर्भात् सा वा अपश्यज् जनितारम् अग्ने। अजनिष्ट इत्याद्युदात्तम्, अपश्यतित्यनुदात्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.