TBD.
विद्यमानपूर्वात् प्रथमान्तात् पदातुत्तरयोः युष्मदस्मदोः विभाष वान्नावादयो न भवन्ति। ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम्। ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम्। ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते। ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते। ग्रामे छात्रास्त्वा पश्यन्ति, ग्रामे छात्रास्त्वां पश्यन्ति। ग्राम् छात्रा मा पश्यन्ति, ग्रामे छात्रा मां प्श्यन्ति। सुपूर्वायाः इति किम्? कम्बलस्ते स्वम्। कम्बलो मे स्वम्। पथमायाः इति किम्? कम्बलो ग्रामे ते स्वम्। कम्बलो ग्रामे मे स्वम्। युष्मदस्मदोर् विभाषा अनन्वादेशिति वक्तव्यम्। इह मा भूत्, अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलो मे स्वम्। अपर आह सर्व एव वान्नावादयो ऽनन्वादेशे विभाषा वक्तव्याः। कम्बलस्ते स्वम्, कम्बलस्तव स्वम्। कम्बलो मे स्वम्, कम्बलो मम स्वम्। अनन्वादेशे इति किम्? अथो कम्बलस्ते स्वम्। अथो कम्बलो मे स्वम्। न तर्हि इदानीमिदं वक्तव्यम् सपूर्वायाः प्रथमाया विभाषा इति? वक्तव्यं च। किं प्रयोजनम्? अन्वादेशार्थम्। अनवादेशे हि विभाषा यथा स्यात्। अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामेकम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम्।
TBD.
–
सपूर्वायाः। वां-नावाद्यादेशा अनन्वादेशे पाक्षिकाः, अन्वादेशे तु नित्या इत्युक्तम्। अन्वादेशेऽपि क्वचिद्विकल्पार्थमिदम्। सहशब्दोऽत्र `सलोमक' #इत्यादिवद्विद्यमानवाची। वीद्यमानं पूर्वं यस्य इति विग्रहः, `तेन सहेति तुल्ययोगे' इति सहस्य समासः। तुस्ययोगवचनं प्रायिकमिति वक्ष्यमाणत्वात्। `प्रथमे'त्यनेन तदन्तं गृह्रते। तदाह–विद्यमानेत्यादिना। परयोरित्यनन्तरं `युष्मदस्मदो'रिति शेषः। भक्तस्त्वमिति। `देवदत्ते'त्यद्याहार्यम्। हे देवदत्त त्वमपि भक्तः, अहमपि भक्त इत्यन्वयः। तेनेति। भक्तत्वेनेत्यर्थः। त्रायते इति पालयतीत्यर्थः। अत् पूर्ववाक्योपात्तयुष्मदस्मदर्थयोरिह पुनरूपादानादन्वादेशोऽयम्। अत्र `तेने' त्येतत् पूर्वं विद्यमानं पदं, ततः परं `हरि'रिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्पः। तथा `त्रायते' इत्येतत्पूर्वं विद्यमानं पदम्, ततः परं `सः' इति प्रतमान्तम्, ततः परस्याऽस्मच्छब्दस्यान्वादेशेऽपि मादेशविक्लपः। `त्रायत' इत्येतन्मध्यमणिन्यायेनोभयत्र संबध्यते। तेने निमित्तनिमित्तिनोः समानवाक्यस्थत्वं, स इत्यस्य विद्यमानपूर्वत्वं च बोध्यम्।
361 सपूर्वायाः। `सह'शब्दोऽत्र `सलोमक'इत्यत्रेव विद्यमानवचनः। `तेन सहेती'त्यत्र तुल्ययगवचनं प्रायिकमिति वक्ष्यमाणत्वाद्विद्यमानवचनस्यापि सहस्य समासः। `वोपसर्जनस्ये'ति सभावः। `प्रथमाया'इति च प्रत्ययग्रहणात्तदन्तविधिरित्यावोच्याह– विद्यमानपूर्वादित्यादि। `एते वानावादय आदेशाः'इत्यविशेषोत्तयैव विभाषया सिद्धे, किमर्थमिदं व चनमित्याशङ्कां परिहन्नाह–अन्वादेशेऽपीति। भक्तस्त्वमित्यादि। त्वं हरेस्त्वं भक्तस्तेनैव कारणेनाऽहमपी ति व्याचक्षाणानां तु यच्छब्दाध्याहारक्लेश इति बोध्यम्। अत्र `तेने'ति पूर्वं विद्यमानं पदं, ततो हरिरिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यादेशः। तथा `त्रायते'इकत्यस्मात्परं`स'इति प्रथमान्तं, ततः परस्याऽस्मच्छब्दस्यादेशः।
TBD.