TBD.
पश्यार्थाः दर्शनार्थाः। दर्शनं ज्ञानम्, आलोचनम्, चक्षुर्विज्ञानम्। तैः पश्यार्थेरनालोचने वर्तमानैर् युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति। ग्रामस्तव स्वं समीक्ष्यागतः। ग्रामो मम स्वं समीक्ष्यागतः। ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः। ग्रामो मह्यं दीयमानं समीक्ष्यागतः। ग्रामस्त्वां समीक्ष्यागतः। ग्रामो मां समीक्ष्यागतः। अनालोचने इति किम्? ग्रामस्त्वा पश्यति। ग्रामो मा पश्यति। पश्यार्थैर् युक्तयुक्ते ऽपि च प्रतिषेध इष्यते। तथा च एव उदाहृतम्।
TBD.
–
पश्यार्थैश्चानालोचने। दर्शनं पश्यः। `दृशिर् प्रेक्षणे' इत्यस्मादत एव निपातनाद्भावे शप्रत्ययः। `पाघ्रे'ति पश्यादेशः। पश्यः=दर्शनम् अर्थो येषां ते पश्यार्थाः, तैरिति विग्रहः। आलोचनं=चाक्षुषं ज्ञानं, तद्भिन्नमनालोचनम्, तत्र विद्यमानैः। दर्शनार्थकैरित्यर्थः। पश्येति दृशिना ज्ञानसामान्यं विवक्षितम्, अनालोचने इति चाक्षुषपर्युदासात्। तदाह–अचाश्रुषेत्यादिना। चेतसेति। देवेत्यध्याहार्यम्। हे देव मनसा त्वां चिन्तयतीत्यर्थः। परम्परेति। `न चवाहे'त्यत्र युक्तग्रहणसामथ्र्यात्साक्षात्संबन्धविवक्षा युक्ता। इह तु तद्विवक्षायां मानाऽभावात्परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थः। भक्तस्तवेति। देवेत्यध्याहार्यम्। इह तवेत्यस्य रूपेणान्वयो न तु साक्षाद्भ्यायतिनेति भावः। `अनालोचने' इत्यस्य प्रयोजनमाह–आलोचना त्विति।
360 तदेतदाह–अचाक्षुषज्ञानार्थैरिति। परम्पासम्बन्धेऽपीति। पूर्वसूत्रस्थ– `युक्त'ग्रहणेन ज्ञापितमेतद्भवत्यन्यत्र परम्परासम्बन्धेपि निषेधैति।
TBD.