Table of Contents

<<8-1-21 —- 8-1-23>>

8-1-22 तेमयावेकवचनस्य

प्रथमावृत्तिः

TBD.

काशिका

युष्मदस्मदोः एकवचनान्तयोः षष्थीचतुर्थीस्थयोः यथासङ्ख्यं ते मे इत्येतौ आदेशौ भवतः। ग्रामस्ते स्वम्। ग्रामो मे स्वम्। ग्रामस्ते दीयते। ग्रामो मे दीयते। द्वितीयान्तस्य आदेशान्तरविधानसामर्थ्यात् षष्ठीचतुर्थ्योः एवायं योगः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

333 उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

227) तेमयावेकवचनस्य 8-1-22

वृत्ति: उक्तविधयोर् अनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः। The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a singular affix of the fourth or sixth case, get “ते” and “मे” as replacements respectively when the two conditions mentioned above are satisfied.

उदाहरणे -

नमस्ते (तुभ्यम्) अस्तु। भोजनं मे (मह्यम्) प्रयच्छ।