Table of Contents

<<8-1-12 —- 8-1-14>>

8-1-13 अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

प्रिय सुख इत्येतयोः अन्यतरस्यां द्वे भवतः अकृच्छ्रे द्योत्ये। कृच्छ्रं दुःखम्, तदभावः अकृच्छ्रम्। प्रियप्रियेण ददाति। सुखसुखेन ददाति। प्रियेण ददाति। सुखेन ददाति। अखिद्यमानो ददाति इत्यर्थः। अकृच्छ्रे इति किम्? प्रियः पुत्रः। सुखो रथः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अकृच्छ्रे। कृच्छ्रं-कष्टम्। अकृच्छ्रम्-अनायासः। तस्मिन्वर्तमानयोः प्रिय सुख इत्यनयोद्र्वे वा स्तः। कर्मधारयवद्भावादिति। `कर्मधारयवदुत्तरेषु' इत्यधिकारादिति भावः। `समासवच्च बहुल'मित्यतः समासवदित्यनुवृत्तिस्तु न शङ्क्या, तस्य वार्तिकस्थत्वात्, एवं च `प्रियेणे'त्यस्य `सुखेने'त्यस्य च द्वित्वे सति कर्मधारयवत्त्वात्सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात्तृतीयैकवचनमिति फलितम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.