Table of Contents

<<8-1-11 —- 8-1-13>>

8-1-12 प्रकारे गुणवचनस्य

प्रथमावृत्तिः

TBD.

काशिका

प्रकारो भेदः सादृश्यं च। तदिह सादृश्यं प्रकारो गृह्यते। प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः। पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। अपरिपूर्णगुणः इत्यर्थः। परिपूर्णगुणेन न्यूनगुणस्य उपमाने सत्येवं प्रयुज्यते। जातीयरो ऽनेन द्विर्वचनेन बाधनं नेष्यते। पटुजातीयः, मृदुजातीयः इत्यपि हि भवति। तत् कथम्? वक्ष्यमाणम् अन्यतरस्यांग्रहणम् उभयोः शेषो विजायते। प्रकारे इति किम्? पटुर्देवदत्तः। मुणवचनस्य इति किम्? अग्निर् माणवकः। गौर्वाहीकः। यद्यप्यत्र अग्निशब्दो गोशब्दश्च मुख्यार्थसम्बन्धादवभृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुनविशेषम् एव प्रतिपादयितुं प्रवृत्तः, तथापि सर्वदा गुणवचनो न भवति इति न द्विरुच्यते। आनुपूर्व्ये द्वे भवत इति वक्तव्यम्। मूले मूले स्थूलाः। अग्रे ऽग्रे सूक्ष्माः। ज्येष्ठं ज्येष्ठं प्रवेशय। स्वार्थे ऽवधार्यमाणे ऽनेकस्मिन् द्वे भवत इति वक्तव्यम्। अस्मात् कार्षापणादिह भवद्भ्याम् माषं माषं देहि। स्वार्थे एतद् द्विर्वचनम्, न वीप्सायाम्। अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसम्बन्धिनो माषाः, तेन वीप्सा न विद्यते। अवधार्यमाणे इति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन् वा माषान् देहि। अनेकस्मिनिति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि। चापले द्वे भवत इति वक्तव्यम्। सम्भ्रमेण प्रवृत्तिश्चापलम्। अहिरहिः, वुध्यस्व बुध्यस्व। नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ, किं तर्हि, यावद्भिः शब्दैः सो ऽथो ऽवगम्यते तावन्तः प्रयोक्तव्याः। अहिरहिरहिः, बुध्यस्व बुध्यस्व बुध्यस्व इति। क्रियासमभिहारे द्वे भवत इति वक्तव्यम्। स भवान् लुनीहि लुनीहि इत्येव अयं लुनाति। आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्। भुक्त्वा भुक्त्वा व्रजति। भोजं भोजं व्रजति। नित्य इत्येव सिद्ध इति तत्र उक्तम्। डाचि द्वे भवत इति वक्तव्यम्। पटपटाकरोति। पटपटायते। अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनम् इष्यते। इह न भवति, द्वितीयाकरोति, तृतीयाकरोति। तदर्थं केचित् डाचि बहुलम् इति पठन्ति। पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम्। पूर्वं पूर्वं पुष्प्यन्ति। प्रथमं प्रथमं पच्यन्ते। आतिशयिको ऽपि दृश्यते, पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्ते इति। डतरडतमयोः समसम्प्रधारणयोः स्त्रीनिगदे भवे द्वे भवत इति वक्तव्यम्। उभाविमावाढ्यौ। कतरा कतरा अनयोराढ्यता। सर्व इमे आढ्याः। कतमा कतमा एषाम् आढ्यता। डतरडतमाभ्यामन्यत्र अपि हि दृश्यते। उभाविमाउ आढ्यौ। कीदृशी कीदृशि अनयोराढ्यता। तथा स्त्रीनिगदाद्भावातन्यत्र अपि हि दृश्यते, उभाविमावाढ्यौ, कतरः कतरो ऽन्योर्विभवः इति। कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम्। यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्य अन्यमन्यमिमे ब्राह्मणा भोजयन्ति, अन्योन्यमिमे ब्राह्मणा भोजयन्ति। अन्योन्यस्य ब्राह्मणा भोजयन्ति। इतरेतरं भोजयन्ति। इतरेतरस्य भोजयन्ति। स्त्रीनपुंसकयोरुत्तरपदस्य च अम्भावो वक्तव्यः। अन्यो ऽन्यामिमे ब्राह्मण्यौ भोजयतः। अन्योन्यं भोजयतः। इतरेतरां भोजयतः। इतरेतरं भोजयतः। अन्योन्यामिमे ब्राह्मणकुले भोजयतः। इतरामिमे ब्राह्मणकुले भोजयतः। इतरेतरमिमे ब्राह्मणकुले भोजयतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

प्रकारे गुणवचनस्य। प्रकारशब्दः सादृश्ये वर्तते, व्याख्यानादित्यभिप्रेत्याह– सादृश्ये द्योत्य इति। गुणवचनशब्देन `आकडारा'दिति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्रन्त इति `वोतो गुणवचना'दित्यादौ प्रपञ्चितमिदम्। तेनेति। कर्मधारयवत्त्वेनेत्यर्थः। पुंवद्भाव इति। `पुंवकर्मधारये'त्यनेने'ति शेषः। पटुपट्वीति। पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात् `पुवत्कर्मधारये'ति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः। यद्यपि बहुव्रीहिवत्त्वेऽपि `स्त्रियाः पुंव'दिति पुंवत्त्वादिदं सिद्धं, तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थं `कर्मधारयव'दिति वचनमिति भावः। पटुपटुरिति। `वोतो गुणवचना'दिति ङीषभावे पुंसि च द्विर्वचने रूपम्। पटुसदृश इति। `इत्यर्थ' इति शेषः। फलितमाह–ईषत्पटिरिति। इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति–गुणोपसर्जनेति। शुक्लशुक्लं रूपमिति। शुक्लसदृशमित्यर्थः। ईषच्छुक्लमिति यावत्। एवं शुक्लशुक्लः पट इति बोध्यम्। \र्\नानुपूव्र्ये इति। अत्र वार्तिके `कर्मधारयव'दिति\त्न सम्बध्यते, तदुदाहरणे भाष्ये सुब्लोपाऽदर्शनादित्यभिप्रेत्योदाहरति–मूलेमूले इति। पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति। यावत्।

गम्यमानायां यथेष्टम्=इच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः। अनेकधेत्युक्तेद्र्वे इति निवर्तते। `यथेष्ट'मित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः। बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः। एतच्च भाष्ये स्पष्टम्। अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात्। पौनःपुन्यं भृशत्वं च क्रियासमभिहारः। लोडन्तविषयमेवेदम्। `क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो'रिति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति–लुनीहिलुनीहीत्येवायं लुनातीति। `लूञ् छेदने' अस्मात् `क्रियासमभिहारे लोट्, लोटो हिस्वौ' इति लोट्। तस्य हीत्यादेशः। श्नाविकरणः। `लुनीही'त्यस्य अनेन द्विर्वचनम्। `यथाविध्यनुप्रयोगः पूर्वस्मि'न्नित्यनुप्रयोगः। तस्माल्लडादयः। अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः। एककर्तृकं लवनमनुप्रयोगस्याऽर्थः। इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रियायां स्फुटीभविष्यति। तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः। नित्येति। `नित्यवीप्सयो'रिति पौनः पुन्ये द्विर्वचने सिद्धेऽपि भृशार्थे द्विर्वचनार्थमिदं वार्तिकमित्यर्थः। नन्बस्य भृशार्थ एव द्विर्वचनफलकत्वे `भृशे चे'त्येव सिद्धे `क्रियासमभिहारे' इति व्यर्थमित्यत आह–पौनःपुन्येऽपीति। लुनीहि–लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत्। अन्यथा–पौनःपुन्येऽपीति। लुनीहि– लुनीहीत्यत्र पौनःपुन्ये द्विर्वचनस्य च समुच्चयार्थमिति यावत्। अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोद्विर्वचनस्य प्रवृत्तिर्न स्यादित्यर्थः। एवं च `धातोरेकाचः' इति पौनः पुन्ये यङन्ते `पापच्यते' इत्यादौ न द्विर्वचनमित्यन्यत्र विस्तरः। विनिमयः=कर्मव्यतिहारः, तस्मिन्गम्ये सर्वनाम्नो द्वे स्तः। ते च द्विरुक्ते पदे बहुलं समासवदित्यर्थः। अत्र `बहुल'मिति समासवदित्यत्रैवान्वेति। द्विर्वचनं तु नित्यमेव। अन्यपरयोरिति। अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम्, इतरशब्दस्य तु नित्यमेवेत्यर्थः। अत एव अन्यशब्दस्य समासवत्त्वरहितमेव, इतरशब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते। तथा `परस्परोपपदाच्चे'ति वार्तिकप्रयोगात्परशब्दस्यापि समासवत्त्वाऽभावो गम्यत इति भावः। एवंच क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यद्विर्वचनम्। द्विरुक्तयोस्तु समासवत्त्वं बहुलम्। इतरशब्दस्य तु तदुभयमपि नित्यम्। एतत्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं द्वित्वं बहुलग्रहणादिति स्थितिः। \र्\नसमासवद्भावे इति। इदमन्यपरशब्दयोरेव, इतरशब्दस्य समावत्त्वस्यैवोक्तत्वात्। सुपः सुरिति। सु'बिति प्रत्याहारः। सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः। इदं द्वित्वादिविधानं प्रथमैकवचनमात्र विषयमिति केचित्। तदेतद्भाष्यविरुद्धं, भाष्ये द्वितीयादिविभक्तेरूदाह्मतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तीरुदाहरति– अन्योन्यं विप्रा नमन्तीत्यादि। इह अन्यम् अन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः। प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतन्न कविसंमतमित्याह–अन्योन्येषामित्यादि, माघ इत्यन्तम्। `परस्पर'मित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्क्य आह– कस्कादित्वादित्यादि। इतरेतरमिति। इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात्, सुपोर्लुकि समुदायात्पुनः सुबुत्पत्तिरिति भावः। स्त्रीनपुंसकयोर्विद्यमानानामन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेरामित्यादेशो बहुलं वक्तव्य इत्यर्थः। अन्योन्यामित्यादि। अन्योन्याम्, अन्योन्यं वा इमे ब्राआहृण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राआहृण्यौ कुले वा भोजयतः। इतरेतराम्, इतरेतरं वा इमे ब्राआहृण्यौ कुले वा भोजयत इत्यन्वयः। तत्र `अन्या'मित्यस्य द्वित्वे `दलद्वये टाबभाव' इति वक्ष्यमाणतया पुंवत्त्वाट्टापो निवृत्तौ समासवत्त्वाऽभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे `अतो रोरप्लुता'दित्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम्। आम्भावविरहे तु पुंवत्तद्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंलिङ्गवदेव अन्योन्यमिति रूपम्। इयं ब्राआहृणी अन्यां ब्राआहृणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राआहृण्यौ भोजयत इत्यर्थः। इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः। अत्राऽन्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे अन्योन्यामिति रूपम्। आम्भावविरहे तु `क्लीबे चाद्?ड्विरहः स्वमो'रिति वक्ष्यमाणतया पुंवत्त्वादद्डादेशाऽभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम्। एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वाट्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम्। आण्भावविरहे तु द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम्। नपुंसकत्वे तु परमित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्पमिति रूपम्। आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम्। इतरामित्यस्य द्वित्वे पुंवत्त्वाटापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम्। आम्भावविरहे तु इतरेतरमिति रूपम्। नपुंसकस्य तु इतरच्छब्स्य द्वित्वे पुंवत्त्वादद्डादेशविरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम्। अत्र भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न भवतीति प्राचीनमतमाह–अत्र केचितदिति। तेनेति। द्वितीयेतरविभक्तिषु आम्भावविरहेणेत्यर्थः। पुंवदेवेति। आम्भावविरहे सति बहुमग्रहणात्पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम्। नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात्प्रथमैकवचस्य इदं पुंवदेव रूपमित्यर्थः। सिद्धान्तमाह–अन्ये त्विति। दिङ्मात्रत्वादिति। दिक्प्रदर्शनमात्रत्वादित्यर्थः। उपलक्षणत्वादिति यावत्।

सिद्धं बाहुलकात्रयम्॥\र्\नथाऽत्र बहुलग्रहणानुवृत्तेः प्रयोजनकथनपरप्राचीनश्लोकमाह–दलद्वये इति। स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्जयोः पुंवत्त्वाट्टाब्निवृत्तिरित्यर्थः। यद्यपि `इतरेतर' मित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धस्तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः। क्लीबे इति। `अन्योन्य'मित्यादावद्डादेशविरह इत्यर्थः। समासे सोरिति। कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः। तथाहीति। यथेदं स्पष्टं भवति, तथा उदाह्मत्य प्रदश्र्यत इत्यर्थः। ननु पूर्वदले `सर्वनाम्नो वृत्तिमात्र' इति पुंवत्त्वस्याऽत्र न प्रसक्तिरित्यर्थः। कुत इत्यत आह–अन्यपरयोरिति। `समासवच्च बहुल'मिति समासवत्त्वमितरशब्दमात्रविषयं, न त्वन्यपरहशब्दविषयमिति प्रागुक्तमित्यर्थः। ननु मास्तु समासवत्त्वं, तथापि `सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्त्वं दुर्वारम्, द्विर्वचनस्य वृत्तित्वादित्याशङ्क्य निराकरोति–नच द्विर्वचनमेव वृत्तिरिति। `कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः' इति परिगणनादिति भावः। द्विर्वचनस्य वृत्त्यन्तर्भ#आवे बाधकमाह–यां या मिति। द्विर्वचनस्य वृत्त्यन्तर्भावे `यांयां प्रियः प्रैक्षत कातराक्षी सासा ह्यिया नम्रमुखी बभूवे'त्यत्र श्लोके यांयामित्यत्र सासेत्यत्र च `सर्वनाम्नो वृत्तिमात्रे' इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः। क्लीबे चाद्ड्विरहः' इत्यस्योदाहरति–अन्योन्यमिति। ननु `समासे सोरलुक् चे'ति कथम्, अन्यपरशब्दयोः समासवत्त्वाऽभावादित्याशङ्क्य कृत्तद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति–अन्योन्यसंस,क्तमिति। अन्योऽन्येन संसक्तमिति तृतीयासमासः। अहश्च त्रियामा चेति समाहारद्वन्द्वः। अहश्च रात्रिश्च अन्योन्येन संयुर्तमित्यर्थः। अन्योन्याश्रय इति। अन्योऽन्यस्य आश्रय इति षष्ठीसमासः। परस्पराक्षिसादृश्यमिति। अक्ष्णा सादृस्यमक्षिसादृश्यम्। परस्परस्याऽक्षिरसादृश्यमिति विग्रहः। अपरस्परैरिति। न परस्परे अपरस्परे,तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य सोर्लुक् प्राप्त इत्यर्थः। सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः। ननु बहुलग्रहणादेतत्समाधेयमित्यत्र किं प्रमाणमित्यत आह–प्रकृतवार्तिकेति। `स्त्रीनपुंसकयो'रिति प्रकृतवार्तिके `अन्योन्यमिमे ब्राआहृण्य'विति, `इतरेतरमिमे कुले' इति चोदाहरणात् `दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमो'रिति विज्ञायते। `स्त्रिया'मिति सूत्रे `अन्योन्यसंश्रयं त्वेत'दिति बाष्यप्रयोगात्समासे सोरलुगिति विज्ञायत इत्यर्थः।

तत्त्वबोधिनी

1597 प्रकारे गुणवचनस्य। यद्यपि प्रकारशब्दो भेदे सादृश्ये च वर्तते। बहुभिः प्रकारैर्भुङ्क्ते। बहुभिर्भेदैर्विशेषैरित्यवगमात्। ब्राआहृणप्रकारोऽयं माणवकः, ब्राआहृणसदृश इत्यवगमाच्च। तथापीह विवक्षितमाह—सादृश्य इति। व्याख्यानमेवाऽत्र शरणम्। पुंवद्भाव इति। `पुंवत्कर्मधारये'ति सूत्रात्। तच्च कोरधादिष्वपि कालककालिकेत्यादिषु प्रवर्तते। तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावोक्तिव्र्यर्थेति शङ्काया निरवकाश इति बोध्यम्। पटुपटुरिति। इह द्वित्वेन जातियरो बाधा नेष्यते, `पटुजातीय'इति वामनः। अन्यता ब्राआहृणजातीय इत्यदावगुणवचनेऽपि भेदरूपेऽर्थे सावकाशो जतीयर् गुणवचनेषु सादृस्ये परेण द्वित्वेन बाध्येतेति भावः। गुणवचनस्येति किम्?। अग्निर्माणवकः। सिंहो माणवकः। यद्यपीहाऽग्निसिंहशब्दाभ्यां गौण्या वृत्त्या तैक्ष्णक्रौर्यादिगुणो गम्यते, तथापि प्रकारे वर्तमानस्येत्येव सुद्धे गुणवचनग्रहणसामथ्र्यात् मुख्यवृत्त्या गुणपराणामेव द्वित्वं, न त्वन्येषामित्याकरः। `नवंनवं प्रीतिरहो करोतो'त्यत्र वीप्सायां द्विर्वचनम्। अनेन तु द्विर्वचने सुब्लुक् स्यात्। `नवनवा वनवायुभिराददे'इत्यत्र त्वनेनैव द्विरह्वचनं, नतु वीप्स#आयामिति पुंवद्भावः। कथं `भीतभीत इव शीतमयूखः'इति भारविः। इवशब्देन सादृस्यस्योक्ततया इह प्रकारे द्वित्वाऽयोगात्। सत्यम्। भीतेभ्यो भीत इति कथंचिव्द्याख्येयम्। तेनाऽतीभीत इति फलितम्। `आधिक्ये द्वे वाच्ये' इति वार्तिकेन भीतभीतादौ द्वित्वमिति दुर्घटादिभिरुक्तं समाधानं नादर्तव्यम्। तादृशस्य वार्तिकस्याऽप्रसिद्धत्वात्। अथ कथं `खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणःक्षीणः परिलघु पयः रुआओतसां चोपयुज्ये'ति मेघदूतः। पदार्थबेदस्याऽभावेन वीप्सार्थस्यासंभवादिति चेत्। अत्राहुः—एकस्यापि केदावस्थासु क्षयावस्थासु च भेदं परिक्ल्प्य वीप्सा बोध्येति। अथ कथं `मन्दं मन्दं नुदति पवनश्चानुकूलो यता त्वा'मिति मेघदूतः। वीप्सार्थस्याऽसंभवादनेनैव द्विर्वचने कृते `मन्दमन्दमुदितः प्रययौ ख'मितिवत्सुब्लुक् स्यादिति चेत्। सत्यम्। स्वतो मन्दगामिनं त्वां पवनो मन्दं नुदतीति कथं चिव्द्याख्येयम्। सिद्धस्य गतेश्चिन्तनीयत्वात्। शुक्लशुक्लमिति। केवलगुणवाचिन उदाहरणमिति ध्वनयति—रूपमिति। \र्\नानुपूव्र्ये द्वे वाच्ये। आनुपूव्र्ये इति। वीप्साऽबावादयमारम्भः। मूलेमूले इति। `अग्रेअग्रे सूक्ष्म'इत्यप्युदाहर्तव्यम्। एकस्य वस्तुनो वेणुदण्डादेरेकमेव मुख्यं मूलमगं च। इतरेषां भागानामापेक्षिकोऽग्रमूलव्यपदेशः। स्थौल्य सोक्ष्म्ये अपि नैकरूपे, किं तर्हि यथामूलमुपचीयते स्थौल्यं, यथा अग्रं सौक्ष्म्यं तता नेतरे भागा इति वीप्साया असंभवः। `मूलेमूले पथि विटपना'मित्यत्र तु वीप्सायां द्विर्वचनम्। एतच्च हरदत्तग्रन्थे स्पष्टम्। न्यायसिद्धः। न्यायसिद्ध इति। याव्द्भिः शब्दैः संबोध्याऽर्थमवगच्छति तावतां प्रयोक्तव्यत्वादिति भावः। वर्मानात्पुनः–पुनःशब्दाद्बावे प्रत्ययः। लोटा सह समुच्चित्येति। नन्वत्र लोटा सह समुच्चित्य यथा द्विर्वचनं भवति, तथा क्रियासमभिहारे यङि यङा सह समुच्चित्य द्विर्वचनं स्यात्—पापच्यतेपापच्यते बोभूयते बोभूयते इति। अत्राहुः—लोटे क्रियासमभिहारं व्यभिचरति, समुच्चयेऽपि जायमानत्वात्। ततस्च लोट्? द्विर्वचनयोरेव तद्द्योतकत्वं, न त्वेकैकस्येति युक्तं लोडन्तस्य द्विर्वचनम्। यङ् तु क्रियासमभिहारं न व्यभिचरतीति द्विर्वचनं विनैव तस्य द्योतकत्वम्। तेन तदन्तस्य न द्विर्वचनमिति। क्रियाविनिमय इत्यर्थः। द्वे इति। नित्यमेवेदं द्वित्वम्, बाहुलकं तु समासवद्भावस्यैव।\र्\नसमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः। सुपः सुर्वक्तव्य इति। अत्र कैश्चिदुक्तं –द्वितीयादीनामेवेदं स्वादेशविधानम्। अतएवोत्तरदलेऽपि द्वितीयादय एव न तु प्रथमा, तत्राप्येकवचनमेव , न तु वचनान्तरमिति। तदपाणिनीयम्। भाष्यादावनुक्तत्वात्। तदेतद्ध्वनयन् वचनान्तरमुदाहरति—–अन्योन्यावन्योन्यानिति। माघ इति। स च भाष्यानुगुण एवेति भावः। एतेनाऽर्वाचीनमतं कवयोऽपि नाद्रियन्त इत्युक्तं भवति। भारविस्चाह— `क्षितिनभःसुरलोकनिवासिभिः कृतमिकेतमदृष्टपरस्परै 'रिति। अत्राऽदृष्टः परस्परो यैरिति विग्रहः। यदि तु द्वितीयादीनामेव स्वादेशविधानं न तु प्रथमायाः, तह्र्रयं प्रयोगो न सिध्येदिति दिक्। वक्तव्यः। अन्योन्यमिति। न चाऽत्र आमबावेऽपि टाप् स्यादिति शङ्क्यम्। `बहुलग्रहणाट्टाबभावः'इत्यनुपदमेव वक्ष्यमाणत्वात्। स्त्रीनपुंसकयोस्तृतीयादिषु पुंवदिति प्राचो ग्रन्थं परिष्कुर्वन्नाह—अत्र केचिदिति। वस्तुस्थितिमाह—अन्ये त्विति। अतिप्रसङ्गादिति। तथा च एकशेषप्रतिबन्धाद्द्विर्वचनस्यापि वृत्तित्वमाश्रित्य तद्बलेन पुंवद्भावो न श्ङ्क्यो, लक्ष्यविरोधात्। `कारकं चेद्विजानीयाद्यां यां मन्येत सा भवे'दिति`अकथित'सूत्रस्थ—`यांया 'मिति भाष्यप्रयोगविरोधाच्चेति भावः। नव्यास्तु–`यांया प्रियः प्रैक्षते'त्यादिमागप्रयोगे `सासा'इति द्विर्वचनमयुक्तम्, द्विरुक्तार्थस्य सेत्यनेनैव परामर्ष्टुं शक्यत्वात्। अतएव भाष्ये `यांया मन्येता सा भवे'दित्येवोक्तमित्याहुः। सोर्लुक् च प्राप्त इति। सुपः स्वादेशविधानस्याऽन्योन्यं परस्परमित्यत्र केवले चरितार्थत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.