TBD.
इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवति इत्येतद् वेदितव्यम्। कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि। सुब्लोपः पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। पुंवद्भावः पटुपट्वी। मृदुमृद्वी। कालककालिका। कोपधाया अपि हि कर्मधारयवद्भावात् पुंवत्कर्मधारयः इति पुंवद्भावो भवति। अन्तोदात्तत्वम् पटुपटुः। पटुपत्वी। समासान्तोदात्तत्वम् अनेन एव विधीयते इति परत्वदाम्रेडितानुदात्तत्वं बाध्यते। अधिकारेणैव सिद्धे यतुत्तरेषु इति वचनं तद्विस्पष्टार्थम्।
TBD.
–
कर्मधारयवदुत्तरेषु। `कार्यं स्या'दिति शेषः। कर्मधारयवत्त्वस्य फलमाह– प्रयोजनमिति। सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम्। अन्तोदात्तत्वानीति। `अनुदात्तं चे'त्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः।
1596 कर्मधारयवदुत्तरेषु। अधिकरेणैव सिद्धे `उत्तरेषुटैति वचनं विस्पष्टार्थमिति वृत्तिः।
TBD.