Table of Contents

<<7-4-94 —- 7-4-96>>

7-4-95 अत् स्मृदृ\उ0304त्वरप्रथम्रदस्तृ\उ0304स्पशाम्

प्रथमावृत्तिः

TBD.

काशिका

स्मृ दृ\उ0304 त्वर प्रथ म्रद स्तृ\उ0304 स्पश इत्येतेषाम् अभ्यासस्य अतित्ययम् आदेशो भवति चङ्परे णौ परतः। स्मृ असस्मरत्। दृ\उ0304 अददरत्। त्वर अतत्वरत्। प्रथ अपप्रथत्। म्रद अमम्रदत्। स्तृ\उ0304 अतस्तरत्। स्पश अपस्पशत्। सन्वद्भावातित्वं प्राप्तम् अनेन बाध्यते। तपरकरणसामर्थ्यातति कृते दीर्घो लघोः 7-4-94 इत्येतदपि न भवति, अददरत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

393 अत्स्मृ। अभ्यासस्येति। `अत्र लोपोऽभ्यासस्ये'त्यतस्तदनुवृत्तेरिति भावः। चङ्परे णाविति। `सन्वल्लघुनीत्यततश्चङ्परे इत्यनुवर्तते। चङ् परो यस्मादिति बहुव्रीहिः। अन्यपदार्थस्त्वर्ताण्णिरेवेति भावः। इत्त्वेति। `सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः। अपप्रथदिति। अत्र अत्त्वविधानादेव सन्वत्त्वविधावनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते। अन्यथा येन नाव्यवधानन्यायादेकहल्व्यवधानस्यैवाश्रयादत्र सन्वत्त्वविरहादेव इत्त्वाऽप्रवृत्त्या किं तेन ?। संयोगे परे गुरुत्वान्नाऽभ्यासदीर्घः। पृथ प्रक्षेपे। ऋदुपधः। पर्थयतीति। णिचि लघूपधगुणः। रपरत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.