TBD.
वेष्टि चेष्टि इत्येतयोः अभ्यासस्य विभाषा अतित्ययम् आदेशो भवति चङ्परे णौ परतः। अववेष्टत्, अविवेष्टत्। अचचेष्टत्, अचिचेष्टत्। अभ्यासह्रस्वत्वे कृते अत्त्वं पक्षे भवति।
TBD.
–
411 विभाषा वेष्टिचेष्ट्योः। `अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते। `अत्स्मृदृ?त्वरे' त्यतोऽदिति, `सन्वल्लघुनी'इत्यतश्चङ्परे इति। चङ् परो यस्मादिति बहुव्रीहिः। णावित्यार्थिकम्। तदाह – अभ्यासस्याऽत्त्वमिति। अबिभ्रजदिति। उपधाह्यस्वपक्षे लघुपरत्वात्सन्वत्त्वादभ्यासस्य इत्त्वम्। `दीर्घो लघो'रिति तु न, संयोगापरत्वादलघुत्वात्। काण्यादीनां वेति। `णौ चङ्युपधाया इति ह्यस्व' इति शेषः। ण्यन्ताः कणरणेति। `कण निमीलने' `रण शब्दे', `भण शब्दे' `श्रण दाने', `लुप छेदने', `हेठ विबाधाया'मिति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः। ह्वायीति। `ह्वेञ् स्पर्धायां शब्दे च'। आत्त्वे युकि च निर्देशः। `वण शब्दे' दन्त्योष्ठ\उfffदादिः, `लुठ प्रतिघाते'टवर्गद्वितीयोपधः, `लप व्यक्तायां वाचि'ति चत्वारो ण्यन्ता भाष्योक्तेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः। चाणिलोटी इति। `चण दाने' तालव्यादिः। `लुट स्तेये' टवर्गप्रथमान्तो भ्वादिः। चुरादौ भाषार्थकोऽपि। एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचिद्ग्रन्थे पठितावित्यर्थः। इत्थं द्वादशेति। अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः। अचीकणदिति। उपधाह्यस्वपक्षे लघुपरत्वात्सन्वत्त्वदीर्घौ च। अचकाणदिति। उपधाह्यस्वाऽभावपक्षे रूपम्। अरीरणत्- अरराणत्। अबीभणत्- अबभाणत्।अशिश्रणत्- अशश्राणत्। अलूलुपत्-अलुलोपत्। अजीहिठत्-अजिहेठत्। अजूहवत्-अजुहावत्। अवीवणत्- अववाणत्। अलूलुठत् - अलुलोठत्। अलीलपत- अललापत्। अचीचमत्- अचचाणत्। अलूलुटत्- अलुलोटत्।
–
TBD.