Table of Contents

<<7-4-71 —- 7-4-73>>

7-4-72 अश्नोतेश् च

प्रथमावृत्तिः

TBD.

काशिका

अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति। व्यानशे, व्यानशाते, व्यानशिरे। अश्नोतेः इति विकरणनिर्देशः अश्नातेर् मा भूतिति। आश, आशतुः, आशुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अश्नोतेश्च। `अत्र लोपःट इत्यतो अभ्यासस्येत्यनुवर्तते, `तस्मान्नु'डिति च। तच्छब्देन `अत आदे'रिति कृतदीर्घोऽकारः परामृश्यते। तदाह– दीर्घादिति। आनशे इति। आनिशिषे आनक्षे। आनशिवहे - आन\उfffदाहे। अष्टेति। व्रश्चादिना शस्य षत्वे ष्टुत्वम्। विधिलिङ्याह– अश्नुवीतेति। आशीर्लिङि ऊदित्त्वादिड्विकल्पं मत्वाह— - अक्षीष्ट अशिषीष्टेति। लुङि सिच इट्पक्षे आह– आशिष्टेति। अनिट्पक्षे `झलो झली'ति सिचो लोपं मत्वाह— आष्टेति। ष्टिघ धातुः षोपदेशः। सेट्। आ गणान्तादिति। स्वादिगणसमाप्तिपर्यन्तमित्यर्थः। इत्युक्तमिति। भ्वादाविति भावः। कित्त्वपक्षे आह— अनिदितामिति नलोप इति। नन्वनिदितामिति नलोपे सति `अत एकहल्मध्ये' इत्येत्त्वसिद्धेः `दम्भेश्चे'ति व्यर्थमित्यत आह– तस्याभीयत्वादिति। नलोपस्येत्यर्थः। दभ्यादिति। आशीर्लिङि `अनिदिता'मिति नलोपः। छन्दसीति। गणसूत्रमिदम्। तद्व्याचष्टे - आ गणान्तादिति। रि क्षि इति। रि क्षि चिरि जिरि दाश दृ इति षट् धातवः। आद्यद्वितीयवेकारक्षरौ। तदाह– रिणोति। क्षिणोतीति। अयं भाषायामपीति। क्षिधातुरित्यर्थः। तत्र प्रयोगं दर्शयति– न तद्यश इति। वृदिति। स्वादयो वृत्ता इत्यर्थः। इति स्वादयः। स्वादयः॥

तत्त्वबोधिनी

131 अश्नोतेश्च। `तस्मान्नुडि'त्यनुवर्तत इत्याह–दीर्घादिति। श्नुविकरणनिर्देशः किम् ?। क्र्यादेरश भोजन इत्यस्य माभूत्। आश। आशतुः। ञिधृषा। शूलेन धृष्णोति प्रगल्भते इति शूल धृक् शूलधृषौ। `ऋत्विग्दधृ'गिति क्विनो विधानादन्यत्रापि पदान्तविषये कुत्म्। दम्भु। लोकवञ्चनाय विहितक्मानुष्ठानं दम्भः। तृप। अयं सेट्कः, अनुदात्तेषु श्यना निर्देशात्। अह व्याप्तौ। अस्मात् `ऋहलोण्र्य'दिति ण्यति `अह्र' इति `तस्यादित उदात्तमद्र्धह्यस्व'मित्यत्रास्माभिरुपपादितम्। अन्ये त्वाहुः– - `शतचक्रं यो3ह्रो वर्तनि'रित्यत्र `अह्र' इति षष्ठयन्तमेव। `घेर्ङिती'ति गुणस्तु अहिशब्दस्य च्छान्दसत्वान्नेति। रि क्षि। एते षट् धातवः। एक एवाजादिरिति मते तु पञ्च धातवः॥\र्\निति तत्त्वबोधिन्याम् स्वादयः॥ स्वादिसन्धिः *\र्\नथस्वादिसन्धिः। `शिव' इत्यस्यावसाने विसर्गस्तस्याच्र्य इत्यनेन समभिव्याहारे सस्याभावाद्रुत्वं कथं स्यादित्याशङ्कायामाह- स्वौजसमौडित्यादिनेति। एवं चात्र मूलभूत एव सुरस्तीति रुत्वादिकं स्यादेव, विसर्गस्त्विह न भवति, खरवसानाऽभावात्। भाविन्यवसानभङ्गेऽकृतव्यूहपरिभाषयाऽच्र्यपदसमभिव्याहारात्पूर्वमपि न भवतीति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.