Table of Contents

<<7-4-72 —- 7-4-74>>

7-4-73 भवतेरः

प्रथमावृत्तिः

TBD.

काशिका

भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः। बभूव, बभूवतुः, बभूवुः। भवतेः इति कृतविकरननिर्देशादिह न भवति, अनुबभूवे कम्बलो देवदत्तेन। लिटि इत्येव, बुभूषति। बोभूयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

400 भवतेरभ्यासोकारस्य अः स्याल्लिटि..

बालमनोरमा

30 भवतेरः। भवतेः- अ इति छेदः। भवतेरिति निर्देशः। भूधातोरित्यर्थः। `इक्?श्तिपौ धातुनिर्देशे' इत्युक्तेः। `अत्र लोपोऽभ्यासस्ये'त्यस्मादभ्यासस्येनुव्रतते। `व्यथो लिटि' इत्यस्माल्लिटीति। भूधातोरभ्यासस्य भवन्नकारः `अलोऽन्त्यस्ये' त्यन्त्यस्योकारस्य भवति। तदाह— अभ्यासोकारस्येति। `नानर्थकेऽलोन्त्यविधि'रिति तु नेह प्रवर्तते, `अनभ्यासविकारे' इत्युक्तेः।

तत्त्वबोधिनी

25 `अत्र लोपोऽभ्यसस्ये'ति सूत्रादभ्यासपदमनुवर्तते। अत्र प्राचोक्तं– भवतेरिति कर्तृनिर्देशाद्भावकर्मणोर्नाऽत्वमिति। व्याख्यातं च तत्पौत्रेण– `कत्र्रर्थयोः श्तिप्शपोर्निर्देशादित्यर्थ' इति। तन्न। धातुनिर्देशमात्रे श्तिपो विधानात्, शपश्च विकरणत्वनानर्थकत्वात्, कत्र्रर्थके परे विहितस्यापि तस्य श्तिपः शित्त्वसामथ्र्यादेवेह प्रवृत्तेः, अन्यथा त्वदुक्तरीत्या `उपसर्गात्सुनोतिसुवती'त्यादीनामपि भावकर्मणोरप्रवृत्तौ सर्वोपप्लव एव स्यात्, अपसिद्धान्तश्चाऽयमिति स्पष्टमेवाकरदृशाम्। प्रयुञ्जते चकर्मण्यप्यकारं कवयः- - `तस्यातपत्रं बिभरांबभूवे', `विभावरीभिर्विभरांबभूविरे' इत्यादि। एतच्च प्रक्रियाप्रसादग्रन्थदूषणं मनोरमायां स्थितम्।\र्\नत्र नव्याः– `श्तिपः शित्त्वसामथ्र्यादेवेह शपः प्रवृत्ति'रिति यदुक्तं, तन्नापिबतिर्ग्लायतिरित्यादौ पिबद्यादेशप्रवृत्त्या आत्त्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात्। एवं च `उपसर्गात्सुनोतिसुवति', `भवतेरः' `ध्यायतेः संप्रसारणं चे'त्यादिनिर्देशादकर्तृवाचिन्यपि परे शवादय इत्येव व्याख्येयम्। अन्यथा `इक्श्तिपौ' इति सूत्रे वक्ष्यमाणस्वग्रन्थेन सह विरोधापत्तेः। केचित्तु- - शित्वात्तिपः सार्वधातुकत्वेन भवतिरित्यादौ `आद्र्धदातुकस्येड्वलादे'रितीडागमनिवृत्त्या, `ब्रावीति'रित्यत्र `ब्राउव ईडि' तीडागमप्रवृत्त्या च शित्त्वं चरितार्थमिति व्याचख्युः, तञ्चिन्त्यम्। `तितुत्रे' त्यनेनेंण्निषेधादाद्र्धधातुकत्वेऽपि क्षत्यभावात्। `ब्राउव ई'डित्यत्र `ब्राउवः परस्य हलादेः पित ईडागम' इत्येतन्मात्रस्य मूले व्याख्यातत्वात्सार्वधातुकस्येति विशेषणाऽभावेऽपि क्षत्यभावात्। न च हलादेःपित्प्रत्ययस्य `सार्व्धातुकस्ये'ति विशेषणाऽभावे ब्राउवो लिटि वच्यादेशे सिपस्थलि उवक्थेत्यत्राऽतिप्रसङ्गः स्यादिति वाच्यं, थलोऽत्र पित्तवाऽभावात्। न च स्थानिवद्भावेन पित्त्वं, श्नः शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येऽप्यनल्विध#आविति तन्निषेधात्। तस्मात्पूर्वोक्तरीत्यैव श्तिपः शित्त्वसाम्रथ्यादकर्तर्यपि शपः प्रवृत्तिरिति ग्रन्थो निराकर्तव्य इत्याहुः। तदपरे न क्षमन्ते। थलः पित्त्वाऽभावे हि `असंयोगाल्लिट्कि'दिति कित्त्वात्? `वचिस्वपी'ति संप्रसारणे सत्युवचिथ उवक्थेति न सिध्येत्, किंतु ऊचिथ ऊक्थेति स्यात्। तस्मात्स्थानिवत्त्वेन थलः पित्त्वेऽभ्युपगते उवक्थेत्यादावतिप्रसङ्गवारणाय `पितः सार्वधातुकस् ईडागम' इति व्याख्यातमेव, तथा च ब्रावीतिरित्यत्र ईडागमप्रवृत्त्या शित्त्वं चरितार्थमिति कैश्चिद्यदुक्तं तदपि सम्यगेवेति॥

Satishji's सूत्र-सूचिः

TBD.