TBD.
द्युति स्वापि इत्येतयोः अभ्यासस्य सम्प्रसारणं भवति। विदिद्युते। व्यदिद्युतत्। विदिद्योतिषते। विदिद्युतिषते। विदेद्युत्यते। स्वापेः सुष्वापयिषति। स्वापिः ण्यन्तो गृह्यते, तस्य अभ्यासनिमित्तेन प्रत्ययेन आनन्तर्ये सति सम्प्रसारनम् इष्यते। इह न भवति, स्वापयतेर् ण्वुल् स्वापकः, तस्मात् क्यचि स्वापकीयति, स्वापकीयते, सन् सिष्वापकीयिष्ति।
TBD.
539 अनयोरभ्यासस्य सम्प्रसारणं स्यात्. दिद्युते..
183 द्युतिस्वाप्योः। अभ्यासस्येति। `अत्र लोपोऽभ्यासस्ये'त्यतस्तदनुवृत्तेरिति भावः। दिद्युते इति। द्वित्वे `हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन `द्युतिस्वाप्यो'रिति संप्रासरणे, `संप्रसारणाच्चे'ति उकारस्य पूर्वरूपे रूपम्।
156 संप्रसारणे कृते `संप्रसारणाच्चे'ति पूर्वरूपम्। तेनेह न– स्वापेर्ण्वुल् स्वापकः, तमिच्छति स्वापकीयति, ततः सन् सिस्वापकीयिषति।
TBD.