TBD.
जिघ्रतेः अङ्गस्य नौ चङि उपधाया इकारादेशो वा भवति। अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन्। अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन्।
TBD.
–
417 जिघ्रतेर्वा। घ्राधातोरुपधाया इद्वा स्याच्चङ्परे णावित्यर्थः। अजिघ्रप् अ त् इति स्थिते उपधाया विकल्पः। उरृदिति। धातोरुपधाया ऋकारस्य ऋद्वा चङ्परे णाविति व्याख्यातं चुरादौ। अचीकृतदिति।कृ?त् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वादित्त्वे तस्यदीर्गे रूपम्। अचिकीर्तदिति। कृ?त् इ अ त् इति स्थिते `उरृ' दित्युपधाया ऋत्वाऽभावपक्षे `उपधायाश्चे'ति इत्त्वे रपरत्वे `किर्न्' इत्यस्य द्वित्वे उत्तरखण्डे `उपधायां चे'ति दीर्घे रूपम्। अवीवृतदिति। `वृतु वर्तने'। णिचि लघूपधगुणं बाधित्वा `उरृत्'। चङि `वृत्'इत्यस्य द्वित्वे उरदत्वे सन्वत्तवादित्त्वं दीर्घश्चेति भावः। अववर्तदिति। ऋत्त्वाऽभावपक्षे वृद्धित्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम्। लघुपरकत्वाऽभावान्न सन्वत्तवदीर्घौ। अमीमृजदिति। उपधाया ऋत्त्वपक्षे रूपम्। अममार्जिदिति। उपधाया ऋत्?तवाऽभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डे `मृजेर्वृद्धि'रिति वृद्धौ रपरत्वे रूपम्। लघुपरत्वाऽभावान्न सन्वत्त्वम्। पातर्णौ लुगिति। लुगागम इत्यर्थः। पुकोऽपवाद इति। आदन्तलक्षणपुकोऽपवादैत्यर्थः।यद्यपि `पाल रक्षणे' इति धातोरेव सिद्धं,तथापि पुको निवृत्तिः फलम्।
365 `उरृत्'। चुरादौ व्याख्यातम्। अचिकीर्तदिति। ऋदादेशाऽभावपक्षे `उपधायायश्चे'तीत्वे रपरत्वम्। `उपधायां चे'ति दीर्घः। लुग्वक्तव्यः। पुकोऽपवाद इति। आदन्ततवात्पुकः प्राप्तिः। एवं च लुगागमस्य पुङ्निवृत्तिरेव फलम्। `पालयती'ति रूपस्य `पाल रक्षणे' इति धातुनापि सिद्धेरिति भावः।
TBD.