TBD.
णौ चङि उपधायाः ऋवर्णस्य स्थाने वा ऋकारादेशो भवति। इरराराम् अपवादः। इर् अचिकीर्तत्, अचीकृतत्। अर् अववर्तत्, अवीवृतत्। आर् अममार्जत्, अमीमृजत्। वचनसामर्थ्यादन्तरङ्गा अपि इररारो बाध्यन्ते। तप्रकरणं दीर्घे ऽपि स्थानिनि ह्रस्व एव यथा स्यात्, अचीकृततिति। न च अयं भाव्यमानः, किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपम् एव एतदभ्यनुज्ञायते।
TBD.
–
394 उरृत्। `ऋ' इत्स्य `उ'रिति षष्ठ\उfffद्न्तं रूपम्। `णौ चङ्युपधायाः'इत्यनुवर्तते। `जिघ्रतेर्वे'त्यतो वेति। तदाह – उपधाया इति। ननु ऋकारस्य ऋकारविधिव्र्यर्थ इत्यत आह – इररारामपवाद इति। `कृ?त संशब्दने' `अचीकृ?त'दिदित्यादौ `उपधायाश्चे'ति इत्त्वे रपरत्वे इर् प्राप्तः, `अमीमृज'दित्यत्र तु `मृजेर्वृद्धि'रित्यार् प्राप्तः, प्रकृतपृथधातौ तु चङि णिलोपे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर् प्राप्तः, तेषामपवाद इत्यर्थः। अपीपृथदिति। णिचमाश्रित्य प्राप्तं गुणं बाधित्वा ऋकारे, द्वित्वे, उरदत्त्वे, हलादिशेष सन्वत्त्वादित्वे, दीर्गे, रूपमिति भावः। अपपर्थदिति। ऋत्वाऽभावपक्षे `द्वर्वचनेऽची'ति निषेधाद्गुणात्प्राक् द्वित्वे उरदत्वे हलादिशेषे ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यतर् लघुपरकत्वाऽभावेन सन्वत्त्वविरहादित्त्वदीर्घौ नेति भावः। अट्ट षुट्ट अनादरे। अयं दोपध इति। अट्टधातुरित्यर्थः। दकारस्य ष्टुत्वचत्र्वाभ्यां निर्देशैति भावः। दोपधत्वस्य प्रयोजनमाह– ष्टुत्वस्येति। तथाच दकारं विहाय `टि' इत्यस्य द्वित्व अद् टिटत् इति स्थिते दस्य ष्टुत्वे चत्व च `आट्टिट'दिति रूपमिष्टं सिद्ध्यति। स्वाभाविकटोपधत्वे तु `न न्द्रा' इति निषेधाऽभावाट्टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषेणाऽभ्यासे प्रथमटकारस्य अनिवृत्तौ आटिट्टदिति अनिष्टं रूपं स्यादिति भावः। ष्मिङ् अनादरे। ननु णिचश्चेत्यात्मनेपदसिद्धेः किमर्थं ङित्करणमित्यताअह– - णिजन्तात्तङिति। तङेवेत्यर्थः। अकत्र्रभिप्रायेऽपि फले णिजन्तादात्मेपदार्थं ङित्करणमिति यावत्। ननु कृतेऽपि ङित्करणे णिजन्तस्य ङित्त्वाऽभावात्कथमुक्तप्रयोजनलाभ इत्यत आह – अवयवेऽचरितार्थत्वादिति। ण्यन्तावयवे ष्मिङ्धातौ ङित्त्वं व्यर्थं, तस्य णिचं विना प्रयोगाऽभावात्। ततश्चाऽवयवे श्रुतं ङित्त्वं ण्यन्तादेव कार्यं साधयतीत्यर्थः। स्माययते इति। णिचि वृद्धौ आयादेशे स्मायीति ण्यन्ताल्लटस्तिपि शपि गुणाऽयादेशाविति भावः। असिष्मयत। तुल उन्माने। कथमिति। लघूपधगुणप्रसङ्गादिति भावः। तुलनेति। `ण्यासश्रन्थो यु'जिति भावः। समाधत्ते – अतुलोपमाभ्यामिति। आदन्तस्येति। तुलधातोण्र्यन्तात्पचाद्यचि निपातनाद्गुणाऽभावे स्त्रीत्वे तुलाशब्द आदन्तः। `ततस्तत्करोति तदाचष्टे' इतिणिचि इष्ठवत्त्वाट्टिलोपे तुलीति ण्यनताल्लटस्तिपि युचि च `चुलयती'ति `तुलने'ति च रूपम्। अकारलोपस्य `अचः परस्मि'न्निति स्थानिवत्त्वान्न गुण इति भावः। व्रज मार्गेति। व्राजयति। मार्गयति। यद्वा– मार्गेति न धात्वन्तरम्। व्रजधातुर्मार्गसंस्कारे गतौ चेत्यर्थः। ज्ञप मिच्चेति। ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः। मित्त्वकार्यभागिति वा। धातुपाठेऽर्थनिर्देशाऽभावादाह - - अयमिति। `प्रच्छ ज्ञीप्साया'मित्यत्र ज्ञाने, `श्लाघङ्नुङ्?स्थाशपां ज्ञीप्स्यमानः' इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः।
344 उरृत्। `जिघ्रतेर्वे'त्यतो वेति वर्तते। इररारामिति। ऋकारोपधे तु `उपधायाश्चे'त्यचीकृतदित्यादौ इर् प्राप्तः, अमीमृजदित्यत्रमृजेर्वृद्धिरार् प्राप्तः, इतरेषांमृदुपधानां गुणेन अपीपृथदित्यादावरिति विवेकः। नन्विह उरित्यनूद्यमानः सवर्णान् गृह्णाति, ऋदिति विधीयमानस्तु न गृह्णाति। तथा च अचीक्लृपदित्यत्र `उरृ'दित्यनेन ऋवर्णे सति अचीकृपदिति प्रसज्येतेति चेत्। मैवम्। लत्वस्याऽसिद्धत्वेन प्रतमम् `उरृ'दित्यस्य प्रवृत्तौ पश्चात् `कृपो रो लः' इत्यनेन ऋकारैकदेशस्यलृकारैकदेशविधानादिष्टसिद्धेः। न च चलीक्लृप्यत इत्यादौ रीगागमादेर्लत्वार्थं `कृपो रो लः' इत्य्सयावश्यकत्वेऽपि कृपूदातुः `क्लृपू सामर्थ्ये' इत्येव पठ\उfffद्ताम्, एवं हि प्रक्रियालाघवं लभ्यते, ऋकारैकदेशस्य लृकारैकदेश इति व्याख्यानक्लेशोऽपि न भवतीति वाच्यम्, अचीक्लृपदित्यत्र `उऋ'दित्यस्य प्रवृत्तावनिष्टरूपप्रसङ्गात्। कृपो रो लः' इत्यनेन ऋकारैकदेशस्यलृकारैकदेश इत्यभ्युपगमे तु उक्तव्याख्यानक्लेशध्रौव्यात्। [इदं च कैयटरीत्योक्तम्। नत्विदं क्षोदक्षमम्, `ऋत उत्' इत्यनेन तपरकरणेन लृवर्णग्राहकत्वेरूपसिद्धेः स्पष्टत्वात्] अयं दोपध इति। टोपधत्वे त्वाटिट्टदिति स्यादिति भावः। शठ \उfffदाठ। शाठयति। असंस्कृतो भवति, गच्छति वेत्यर्थः। स्माययत इति।आत्वं तु नेह भवति, `नित्यं स्मयते'रिति निर्देशेन `स्मिङ् ईषद्धसने' इति भौवादिकादेव हेतुमण्णौ तद्विधानात्। श्रण दाने। विश्राणनं– वितरणम्। चुद संचोदने। `ण्यासश्रन्थः' इति युचि– चोदना। वज मार्ग। वाजयति। मार्गयति। केचित्तु मार्गेति न धात्वन्तरं किं तु वजेत्येक दातुर्मार्गसंस्कारे गतौ चेति व्याचख्युः। ज्ञप मिच्च। चाद्गत्यामत्येके। ज्ञपधातुर्णिचं लभते मित्संज्ञकश्चेत्यन्ये ज्ञाने ज्ञापने चेति। `प्रतिपज्ज्ञप्तिचेतनाः'। प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने, `श्लाघह्नु'ङिति सूत्रे `ज्ञीप्स्यमानो बोधयितुमिष्यमाण' इति व्याख्यायां ज्ञापने च प्रयोगदर्शनादिति भावः।
वृत्ति: उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । When followed by the affix णिच् which itself is to be followed by the affix “चङ्”, the penultimate ऋवर्णः (ऋकारः/ऌकारः/ ॠकारः) optionally takes ऋकारः as a substitute.
उदाहरणम् – अदीदृशत्/अददर्शत् derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
दृश् + णिच् 3-1-26
= दृशि 1-3-3, 1-3-7, 1-3-9. Note: 7-3-86 would apply here, but it is over-ruled by the अपवाद-सूत्रम् 7-4-7.
“दृशि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
दृशि + लुँङ् 3-2-110
= दृशि + ल् 1-3-2, 1-3-3, 1-3-9
= दृशि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= दृशि + ति 1-3-3, 1-3-9
= दृशि + त् 3-4-100
= दृशि + च्लि + त् 3-1-43
= दृशि + चङ् + त् 3-1-48. Note: 7-4-7 replaces the penultimate ऋकारः (of “दृश्”) by a ऋकारः। This is to prevent 7-3-86 from applying.
= दृशि + अ + त् 1-3-3, 1-3-7, 1-3-9
= दृश् दृशि + अ + त् 6-1-11
= दर् श् दृशि + अ + त् 7-4-66, 1-1-51
= द दृशि + अ + त् 7-4-60
= दि दृशि + अ + त् 7-4-79. Note: By 7-4-93 the operations on the अभ्यासः “द” are carried out as if the affix “सन्” follows the अङ्गम्।
= दी दृशि + अ + त् 7-4-94
= दी दृश् + अ + त् 6-4-51
= अट् दी दृश त् 6-4-71, 1-1-46
= अदीदृशत् 1-3-3, 1-3-9
When the optional ऋकारादेशः (by 7-4-7) is not done the form is अददर्शत्।
दृश् + णिच् 3-1-26
= दृश् + इ 1-3-3, 1-3-7, 1-3-9
= दर्शि 7-3-86, 1-1-51. “दर्शि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
दर्शि + लुँङ् 3-2-110
= दर्शि + ल् 1-3-2, 1-3-3, 1-3-9
= दर्शि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= दर्शि + ति 1-3-3, 1-3-9
= दर्शि + त् 3-4-100
= दर्शि + च्लि + त् 3-1-43
= दर्शि + चङ् + त् 3-1-48
= दर्शि + अ + त् 1-3-3, 1-3-7, 1-3-9
= दर्श् दर्शि + अ + त् 6-1-11
= द दर्शि + अ + त् 7-4-60. Note: Here there is no सन्वद्भावः (by 7-4-93) because the vowel (the अकारः of “दर्शि”) following the अभ्यासः (“द”) does not have लघु-सञ्ज्ञा। (It instead has the गुरु-सञ्ज्ञा by 1-4-11 संयोगे गुरु।) Hence 7-4-79 does not apply here.
= द दर्श् + अ + त् 6-4-51
= अट् द दर्श त् 6-4-71, 1-1-46
= अददर्शत् 1-3-3, 1-3-9