Table of Contents

<<7-4-54 —- 7-4-56>>

7-4-55 आप्ज्ञप्यृधाम् ईत्

प्रथमावृत्तिः

TBD.

काशिका

आप् ज्ञपि ऋध इत्येतेषाम् अङ्गानाम् अच ईकारादेशो भवति सनि सकारादौ परतः। आपीप्सति। ज्ञपि ज्ञीप्सति। ऋद्ः ईर्त्सति। ज्ञपेः द्वावचौ, तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य तु ईत्वम्। सनि इत्येव, प्राप्स्यति। सि इत्येव, जिज्ञपयिषति। अर्दिधिषति। सनीवन्तर्ध इति ज्ञपेः ऋधेश्च इटो विकओपः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

447 आप्ज्ञप्यृधामीत्। सादौ सनीति। `सनि मीमाघुरभे'त्यतः सनीति, अच इति चानुवर्तते। `सः स्याद्र्धधातुके' इत्तः सीत्यनुवृत्तं सनो विशेषणम्। तदादिविधिरिति भावः।

तत्त्वबोधिनी

388 आप्ज्ञ। `सनि मीमे' त्यतः –अच इत्यनुवर्तते, `सः स्याद्र्धधातुके' इत्यतः सीति च। तदाह– अव ईत्स्यादाविति। `सी'त्यस्य सनो विशेषमात्सादाविति लाभः।

Satishji's सूत्र-सूचिः

वृत्तिः एषामच ईत्स्यात्सादौ सनि । “ई” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) -
i) √आप् (आपॢँ व्याप्तौ ५. १६)
ii) √ज्ञप् (ज्ञा अवबोधने ९. ४३ (in the causative) , ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु मिच्च १०. ११८)
iii) √ऋध् (ऋधुँ वृद्धौ ४. १६०, ऋधुँ वृद्धौ ५. २७).

उदाहरणम – ईप्सति is a desiderative form derived from √आप् (आपॢँ व्याप्तौ ५. १६).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
आप् + सन् 3-1-7
= आप् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= ईप् + स 7-4-55
= ई प्स प्स 6-1-9
= ईप्स 7-4-58
“ईप्स” gets धातु-सञ्ज्ञा by 3-1-32

ईप्स + लँट् 3-2-123 = ईप्सति 1-3-62, 1-3-78