Table of Contents

<<7-4-53 —- 7-4-55>>

7-4-54 सनि मीमाघुरभलभशकपतपदाम् अच इस्

प्रथमावृत्तिः

TBD.

काशिका

सनि प्रत्यये सकारादौ परतः मी मा घु रभ लभ शक पत पद इत्येतेषाम् अङ्गानाम् अचः स्थाने इसित्ययम् आदेशो भवति। मी इति मीनातिमिनोत्योः द्वयोरपि ग्रहणम् इष्यते। मित्सति। प्रमित्सति। मा इति गामादाग्रहणेषु अविशेषः। मित्सते। अपमित्सते। घु दित्सति। धित्सति। रभ आरिप्सते। लभ आलिप्सते। शक शिक्षति। पत् पित्सति। पद प्रपित्सते। सनि इति किम्? दास्यति। सि इत्येव, पिपतिषति। तनिपतिदरिद्राणाम् उपसङ्ख्यानम् इति पतेः इडागमविकल्पः। सनि राधो हिंसायाम् अच इस् वक्तव्यः। प्रतिरित्सति। हिंसायाम् इति किम्? आरिरात्सति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

451 सनि मीमा। सादौ सनीति। `सः सि' इत्यतः सीत्यनिवृत्तेरिति भावः। अभ्यासलोप इति। `अत्र लोपः' इत्यनेनेति भावः। पिस्त् स इति स्थिते आह– स्कोरिति। दरिद्रातेः सनि `तनिपती'ति इड्विकल्पमुदाहरति– दिदरिद्रिषति। दिदरिद्रासतीति। डु मिञिति। `डु मिञ् प्रक्षेपणे' स्वादिः, `मीञ् हिंसायाम्' क्र्यादिः, आभ्यां सन्नित्यर्थः। `सनि मीमे'त्यतर् मीग्रहणेन एतयोरुभयोग्र्रहणमिति भावः। ननु मीति दीर्घश्रवणात् डु मिञ् इत्यस्य ह्यस्वान्तस्य कथं ग्रहणमित्यत आह– कृतदीर्घस्येति। डु मिञ्?धातोः सनि `अज्झने'ति कृतदीर्घस्य, तथा `मीञ् हिंसाया'मिति स्वतः सिद्धदीर्घस्य च मीरूपाऽविशेषादुभयोरपि ग्रहणमित्यर्थः। सः सीति। उभयोरपि धात्वोः मी स इति स्थिते `सनि मीमे'ति इसादेशे द्वित्वे `अत्र लोपः' इत्यभ्यासलोपे `सः सी'ति सस्य तकार इत्यर्थः। मित्सति मित्सते इति। प्रकृतेर्ञित्त्वात् `पूर्ववत्सनःर' इति उभयपदित्वम्। माङ्मेङोरिति। मेङः सनि `आदेचः' सनि आत्त्वे कृते मारूपत्वाऽविशेषात् `सनि मीमे'त्यत्र उभयोरपि ग्रहणमिति भावः। दोदोणोरिति। `दो अवखण्डने' इतिधातोः सनि आत्त्वे कृते दारूपाऽविशेषाद्धुत्वादुभयोग्र्रहणमिति भावः। दित्सतीति। `हलन्ताच्चे'ति कित्तवान्नोपधागुणः। देङिति। तस्यापि कृतात्त्वस्य घुत्वात् `सनि मीमे'त्यत्र ग्रहणमिति भावः। रिप्सते इति। रभधातोः रूपम्। लिप्सते इति। लभधातो रूपम्। पित्सतीति। पत्लृधातो रूपम्। पदधातोः पित्सते इति रूपम्। सनि इस् वाच्य इति। `आकारस्ये'ति शेषः।ष रित्सतीति। सनि इसादेशः। `अत्र लोपः' इत्यभ्यासलोपः।

तत्त्वबोधिनी

391 सनि मीमा। `सः सी'त्यतः सीत्यनुवर्तते। तस्य सनो विशेषणत्वात्सादौ सनीति लाभः। मीरूपाऽविशेषादिति। ननु मिनोतेर्मीरूपस्य लाक्षणिकत्वान्मीग्रहणेन ग्रहणं न प्राप्नोति। नैष दोषः। यत्र लक्षणाभिनिर्वृत्तत्वेन शब्दरूपमपेक्ष्यते तत्र `लक्षणप्रतिपदोक्तयो'रिति परिभाषोपस्थानं न तु यत्र प्रयोगाश्रयणं तत्रेति `इको झ'लिति सूत्रे कैयटेनोक्तत्वात्। तस्यायमाशयः– मीरूपमात्रस्य प्रयोगाऽत्राश्रितः। `विभाषा दिक्समासे' इत्यत्र तु लक्षणाभिनिर्वृत्तस्य समासशब्दस्याश्रयणात् `दिङ्नामान्यन्तराले इति प्रतिपदोक्त एव समास आश्रीयते इति। लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वात्क्वचिदुपतिष्ठते क्वचिन्नोपतिष्ठते इतितु निष्कृष्टोऽर्थः। मित्सतीति। `हलन्ताच्चे'ति कित्त्वान्नोपधागुणः। शिक्षतीति। ननु निरनुबन्धपरिभाषया `शक मर्षणे' इत्यस्यैव ग्रहणमुचितमिति चेत्। अत्राहुः– इयं हि परिभाषा प्रत्ययग्रहणविषया। अत ए `जृ?व्रश्च्यो'रित्यत्र जजृ?षोरुभयोग्र्रहणमिति न्यासकारेणोक्तमतोऽत्रापि स्वादिदैवादिकयोग्र्रहणं युक्तमेवेति।

Satishji's सूत्र-सूचिः

वृत्तिः एषामच इस् स्यात्सादौ सनि । “इस्” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) -
i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to “मी” by 6-4-16)
ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes “मा” by 6-1-45)
iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20)
iv) √रभ् (रभँ राभस्ये १. ११२९)
v) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७)
vii) √पत् (पतॢँ गतौ १. ९७९) and
viii) √पद् (पदँ गतौ ४. ६५).

उदाहरणम् – दित्सति/दित्सते is a desiderative form derived from √दा (डुदाञ् दाने ३. १०).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
दा + सन् 3-1-7
= दा + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= दिस् + स 7-4-54
= दित् + स 7-4-49

Example continued under 7-4-58