TBD.
दधातेरङ्गस्य हि इत्ययम् आदेशो भवति तकारादौ किति प्रत्यये परतः। हितः। हितवान्। हित्वा।
TBD.
829 तादौ किति. हितम्..
883 दधातेर्हिः। तादौ कितीति। शेषपूरणमिदम्। `द्यतीस्तयती'त्यतस्तदनुवृत्तेरिति भावः। दो दद्धोः `द' इति षष्ठ\उfffद्न्तम्। तदाह– दा इत्स्येति। `दथ्' इति च्छेदः। तदाह– दथ् स्यादिति। तवर्गद्वितीयान्तोऽयमादेशः। तादौ कितीति। `ति किती'त्यनुवृत्तेरिति भावः। चत्र्वमि#इत। `खरि चे'ति थकारस्य तकार इत्यर्थः। दात इति। दाप्दैपो रूपम्। `अदा'वित्युक्तेर्घुत्वाऽभावान्न दद्भावः। तान्तो वेति। तवर्गप्रथमान्त इत्यर्थः। नन्वेवं सति `विदत्त ' मित्यादौ `दस्ती'त्युपसर्गस्य दीर्घत्वापत्तिः। तत्र हि `द' इति षष्ठी सप्तम्यर्थे। इगन्तोपसर्गस्य दीर्घः स्यात्तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्क्य नराकरोति– न चैवमिति। आदेशस्य तवर्गप्रथमान्त्वे सतीत्यर्थः। तकारादाविति। `दस्ती'त्यत्र द इति षष्ठी तीत्यत्रान्वेति। तथा च इगन्तोपसर्गस्य दीर्घः स्याद्दादेशतकारादावुत्तरपदे इत्यर्थः। उत्तरपदाधिकारात्। ततश्च उत्तरपदस्याऽत्र तकारादित्वाऽभावान्न दीर्घ इति भावः। दान्तो वा धान्तो वेति। तवर्गतृतीयान्तो वा, चतुर्थान्तो वा अयमादेश इत्यर्थः। न चेति। दान्तत्वे निष्ठानत्वं, धान्तत्वे `झषस्तथो'रिति धत्वं च न शङ्क्यमित्यन्वयः। संनिपातेति। दान्तादेशस्य, धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वाऽसंभवादिति भावः।
726 दधातेर्हिः। श्तिपा निर्देशो धटो निवृत्त्यर्थः। तीत्यनुवृत्तेर्यङ्लुकिन। दाधितः। अत्रापि प्रसादकृता–श्तिपा निर्देशस्य यङ्लुङिवृत्त्यर्थत्वद्दाधीत इति `घुमास्थे'तीत्वमुदाह्मतं, तत्पूर्ववदेव हेयम्।
वृत्तिः तादौ किति । The term ‘हि’ is substituted in place of the (entire) verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।
उदाहरणम् – प्रातिपदिकम् “हित” derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).
धा + क्त 3-2-102, 3-4-70
= धा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= हित 7-4-42, 1-1-55. “हित” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.