Table of Contents

<<7-4-40 —- 7-4-42>>

7-4-41 शाछोरन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

शा छा इत्येतयोः अन्यतरस्याम् इकारादेशो भवति तकारादौ किति। शा निशितम्, निशातम्। निशितवान्, निशातवान्। छा अवच्छितम्, अवच्छातम्। अवच्छितवान्, अवच्छातवान्। श्यतेरित्त्वं व्रते नित्यम् इति वक्तव्यम्। शंशितो ब्रह्मणः। संशितव्रतः इत्यर्थः। व्यवस्थितविभाषविज्ञानात् सिद्धम्। देवत्रातो गलो ग्राह इति योगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

882 शाच्छोः। शो तनूकरणे' `छो छेदने' अनयोः कृतात्वयोर्निर्देशः। अनयोरिकारोऽन्तादेशो वा स्यात्तादौ कितीत्यर्थः। व्यवस्थितेति। एतच्च भाष्ये स्पष्टम्।

तत्त्वबोधिनी

725 शाच्छो। शो तनूकरणे। छो छेदने।

Satishji's सूत्र-सूचिः

TBD.