TBD.
द्यति स्याति मा स्था इत्येतेषाम् अङ्गानाम् इकारादेशो भवति तकारादौ किति प्रत्यये परतः। द्यति तिर्दितः। निर्दितवान्। स्यति अवसितः। अवसितवान्। मा मितः। मितवान्। स्था स्थितः। स्थितवान्। ति इति किम्? अवदाय। किति इति किम्? अवदाता।
TBD.
–
881 द्यतिस्यति। एषां चतुर्णां द्वन्द्वात्षष्ठी। `दो अवखण्डने' इत्यस्य द्यतीति निर्देशः। `षो अन्तकर्मणी'त्यस्य तु स्यतीति निर्देशः। इत्-ति- कितीति च्छेदः। ईत्त्वेति। `घुमास्थे'ति ईत्त्वस्य, `दो दद्धो'रिति दद्भावस्य च यथासंभवमपवाद इत्यर्थः। दोधातोरुदाहरति– दित इति। मा माङ् मेङिति। `गामादाग्रहणेष्वविशेषः' इति वचनादिति भावः।
724 द्यतिस्यति। दोऽवखण्डने, षोऽन्तकर्मणि, मा माने, माङ् माने ,मेङ् प्रणिदाने, ष्ठा गतिवृत्तौ। श्तिपा निर्देशो धातुविशेषणार्थः। न हि श्तिपं विना श्यन् सुलभः। यत्तु प्रसादकृतोक्तं– `श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः, दादत्तः [सासात'] इति। तन्न। यङ्लुकि हि इटा भाव्यं– दादितः सासित इति। तत्र `ति कितीति वचनान्नाऽस्ति प्रसङ्गः। किं च `दो दद्धो'रिति विधीयमान आदेशोऽनेकाल्त्वात्सर्वस्येति निर्विवादम्। तथा च हन्तेर्यङ्लुगन्तस्य वधादेशवत्साभ्यासस्य प्रवर्तेतेति दादत्त इति त्वदुदाह्मतरूपं कथमुक्तिसम्भवं लभेतेत्याहुः।
वृत्तिः एषामिकारोऽन्तादेश: स्यात्तादौ किति । A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।
उदाहरणम् – प्रातिपदिकम् “स्थित” derived from the verbal root (ष्ठा गतिनिवृत्तौ १. १०७७).
स्था + क्त 6-1-64, 3-2-102, 3-4-72
= स्था + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= स्थित 7-4-40, 1-1-52. “स्थित” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.