Table of Contents

<<7-4-32 —- 7-4-34>>

7-4-33 क्यचि च

प्रथमावृत्तिः

TBD.

काशिका

अस्य इति वर्तते। क्यचि परतः अवर्णान्तस्य अङ्गस्य ईकारादेशो भवति। पुत्रीयति। घटीयति। खट्वीयति। मालीयति। अकृत्सार्वधातुकयोर् दीर्घः 7-4-24 इत्यस्य अपवादः। पृथग्योगकरणम् उत्तरार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

725 अवर्णस्य ईः. आत्मनः पुत्रमिच्छति पुत्रीयति..

बालमनोरमा

483 क्यचि च। `अस्य च्वौ' इत्यतोऽस्येत्यनुवर्तते। `ई घ्राध्मो'रित्यत ईग्रहणं चेति मत्वा शेषं पूरयति– अस्येति। अकारस्येत्यर्थः। पुत्रीयतीति। क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीयमिच्छतीत्यत्र पुत्रशब्दान्न क्यच्। गव्यतीति। गामात्मन इच्छतीत्यर्थः। नाव्यतीति। नावमात्मन इच्छतीत्यर्थः। अपदान्तत्वादिति। `लोपः शाकल्यस्ये'त्यस्य पदान्त एव प्रवृत्तेरिति भावः। नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह– तथा हीति। यथा पदत्वं न भवति तथोच्यते इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः अवर्णस्य ईः । A ईकारः is substituted in place of a final अवर्णः (अकारः/आकारः) of a अङ्गम् when followed by the affix क्यच्।
Note: This सूत्रम् is a अपवादः (exception) to 7-4-25.

Example continued from 2-4-71
पुत्र + य
= पुत्री + य 7-4-33, 1-1-52

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
पुत्रीय + लँट् 3-2-123
= पुत्रीय + ल् 1-3-2, 1-3-3, 1-3-9
= पुत्रीय + तिप् 3-4-78, 1-3-78
= पुत्रीय + ति 1-3-3, 1-3-9
= पुत्रीय + शप् + ति 3-1-68
= पुत्रीय + अ + ति 1-3-8, 1-3-3, 1-3-9
= पुत्रीयति 6-1-97