Table of Contents

<<7-4-25 —- 7-4-27>>

7-4-26 च्वौ च

प्रथमावृत्तिः

TBD.

काशिका

च्विप्रत्यये परतो ऽजन्तस्य अङ्गस्य दीर्घो भवति। शुचीकरोति। शुचीभवति। शुचीस्यात्। पटूकरोति। पटूभवति। पटूस्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1249 च्वौ परे पूर्वस्य दीर्घः स्यात्. अग्नीभवति..

बालमनोरमा

अथ `शुचीभवती'ति `वक्ष्यन्नाह–च्वौ च। दीर्घः स्यादिति। `अकृत्सार्वधातुकयो'रित्यतस्तदनुवृत्तेरिति भावः। अव्ययस्येति। अव्ययस्य `च्वौ चे'ति दीर्घो नेत्यर्थः। तेन स्वस्तिस्यादित्यत्र च्वौ न दीर्घ इति भावः। तन्निरमूलमिति। भाष्यावदृष्टत्वादिति भावः। तर्हि `स्वस्ति स्या'दिति न स्यात्, दीर्घप्रसङ्गादित्यत आह–स्वस्ति स्यादिति त्विति। ननु महाविभाषया दीर्घाऽभावे स्वस्ति स्यादिति सिद्धावपि, कदाचित्स्वस्ती स्यादिति दीर्घो दुर्वार इति शङ्कते– स्वस्तीस्यादित्यपि पक्षे स्यादिति। इष्टापत्तिरित्याह–अस्त्विति। `दीर्घतदभावाभ्यां रूपद्वय'मिति शेषः। प्रामाणिकत्वादुभयमप्यादर्तव्यमिति। भावः। ननु शिष्टानङ्गीकारात्कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि। मातृशब्दाच्च्विप्रत्यये विशेषमाह–रीङृत #इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.