Table of Contents

<<7-4-1 —- 7-4-3>>

7-4-2 न अग्लोपिशास्वृदिताम्

प्रथमावृत्तिः

TBD.

काशिका

अग्लोपिनाम् अङ्गानां शासेः ऋदितां च णौ चङि उपधाया ह्रस्वो न भवति। अग्लोपिनां तावत् मालामाख्यतममालत्। मातरमाख्यतममातरत्। राजानम् अतिक्रान्तवानत्यरराजत्। लोमान्यनुमृष्टवानन्वलुलोमत्। अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम्, हलचोरादेशे तु न सिध्यति इति तदर्थम् एतद् वचनम्। शासेः अशशासत्। ऋदिताम् बाधृ अबवाधत्। याचृ अययाचत्। ढौकृ अडुढौकत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

400 नाग्लोपि। `णौ चङ्युपदायाः' इत्यनुवर्तते। णावित्यावर्तते. एकमग्लोपिन इत्यत्रान्वेति, द्वितीयं तु निषेधे परनिमित्तं। तदाह – णिच्यग्लोपन इत्यादि। अलुलोकदिति। ऋदित्त्वाऽन्नाग्लोपीति निषेधेन उपधाह्यस्वाऽभावे सति लघु परकत्वाऽभावान्नाऽभ्यासदीर्घ इति भावः। उदितत्वादिति। `वृतु वृधु' इत्युदितत्वम् `उदितो वे'त्यण्यन्तात् क्त्वायामिड्विकल्पार्थम्। ण्यन्तात्तु णिचा व्यवधानान्नेड्विकल्पप्रसक्तिः, अतो णिज्विकल्पो विज्ञायते इति भावः। पूरी आप्यायने। इण्निषेधायेति। अण्यन्तात्क्त्वायामिण्निषेधार्थमीदित्त्वम्। ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः। अतो णिज्विकल्पो विज्ञायते इत्यर्थः। स्वदधातुः षोपदेशः। तदाह - असिष्वददिति। आदेशसकारत्वात्षः। अभ्यासेऽकारस्य संयोगपरकत्वेन गुरुत्वान्नाऽभ्यासदीर्घः।दीर्घस्य त्विति।दीर्घमध्यस्य त्वित्यर्थः। अषोपदेशत्वादिति। ह्यस्वमध्यस्यैव स्वदेः षोपदेशेषु पररिगणनादिति भावः। इत्यास्वदीयाः। आ धृषाद्वेति। गणसूत्रम्। विभाषितणिच इति। विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः। आङभिव्याप्ताविति मत्वा आह - धृषधातुमभिव्याप्येति। णिजभावपक्षे आह – अयौक्षीदिति। अर्च पूजायामिति। अयमनुदात्तेदिति शाकटायनः। अर्चयते। अर्चते। अस्य भ्वादौ पाठोऽनार्षः, अनेनैव सिद्धेः। न च परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम्, भ्वादौ तस्याप्यात्मनेपदीयतायाः शाकटायनसंमतत्वेन माधवोक्तेः। एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिकएवेत्याहुः। ली द्रवीकरणे। लाययतीति। लीलोरिति नुक्तु न, लासाहचर्याद्धेतुमण्णावेवाऽस्य प्रवृत्तेः। लेतेति। `विभाषा लीयते'रित्यात्त्वं तु न, तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात्। वृञ् आवरणे। वरिता - वरीतेति। `वृ?तो वे'ति दीर्घः। आशीर्लिङि - व्रियात्। आत्मनेपदे तु `लिङिसचो'रितिवेट्। वृषीष्ट– वरिषीष्ट। इडभावपक्षे `उश्चे'ति कित्त्वान्न गुणः। `न लिङी'ति इटो न दीर्घः। अवृत। ज्रि चेति। ह्यस्वान्तोऽयम्। रिच वियोजनेइति। अनिडयम्। ततश्च णिजभावपक्षे नेट्। तदाह – रेक्तेति। शिष असर्वेति। अयमप्यनिट्। तदाह –शेष्टेति। अशिक्षदिति। `शल इगुपधा'दिति क्सः। अयं विपूर्वोऽतिशये इति। `वर्तते' इति शेषः। अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते। तृप तृप्ताविति। अनिट्सु श्यना निर्देशादयं सेट्। तदाह – तर्पितेति। छृदी संदीपने इति। ईदित्त्वं निष्ठायामिण्निषेधार्थम्। धुवति स्फुटितेति। शविकरणस्य रूपम्। शस्य ङित्त्वाद्गुणाऽभावे उवङ्। प्रीञ् तर्पणे। प्रीणयतीति। `धूञ्प्रीञो'रिति वार्तिकान्नुगिति भावः। हरदत्तेति। अनेन भाष्याऽसंमतत्वं सूचितम्। उपसर्गाच्चेति। दैघ्र्ये तूपसर्गादनुपसर्गाच्च परस्तनुधातुराधृषीयो वेदितव्य इत्यर्थः। श्रद्धोपकरमयोस्त्वनुपसर्गादेवेति भावः। वच परिभाषणे। अवाक्षीदिति। `अस्यातिवक्ती'ति लुका निर्देशादङ्नेति भावः। `वचिस्वपी'ति संप्रसारणम्- उच्यात्। इत्याधृषीयाः। अथाऽदन्ता इति। `वक्ष्यन्ते' इति शेषः। अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः। तत्र कथदातोर्णिचि अतोलोपे `कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति। तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह - अल्लोपस्य स्थानिवद्भावादिति। `अचः परस्मि'न्नित्यनेनेति भावः। अत्रेदमवधेयं- - स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः। अन्यथा `नायक' इत्यत्र ईकार स्थानिकस्य ऐकारस्य आयादेशानापत्तेः। ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात्। `अचः परस्मि'न्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम्। अतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्याऽशास्त्रीयत्वेऽप्यतिदेश इति इति सिद्धम्। लुङि चङि `अचकथ' दित्यत्र सन्वत्त्वमाशङ्क्याह– अग्लोपित्वादिति। सन्वत्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः। एवं वरादौ सर्वत्र ज्ञेयम्। गण सङ्ख्याने। चङि अल्लोपस्य स्थानिवत्त्वाद्दीर्घसन्वद्भावयोरभावे `अजगण'दित्येव प्राप्ते आह –

तत्त्वबोधिनी

349 स्वाद इत्येके इति। अस्मिन्मते पूर्वत्राप्यास्वादः सकर्मकादिति पाठ\उfffद्म्। ननु दीर्घपाठो व्यर्थः, ह्यस्वपाठेऽप्युपधावृद्ध्या स्वादयतीति रूपाणां तुल्यत्वादत आह— दीर्घस्य त्विति। `सः स्विदिस्वदिसहीनां चे'ति सूत्रेण अभ्यासेणः परस्य सस्य सकारो न तु षत्वमिति वक्ष्यमाणत्वात्सन्नन्तेऽपि सिस्वादयिषतीत्यादि रूपं तुल्यमेवेत्यभिप्रेत्याह— असिस्वददिति। इत्यास्वदीयाः। आधृषाद्वा। व्याख्यानात्, योग्यताबलाद्वा णिजिति संबध्यते। अयौक्षीदिति। णिजभावपक्षे अनिट्कोऽयमिति भावः। ली द्रवीकरणे। `लिनातिलीयत्योर्यका निर्देश' इति भाष्यकारोक्त्या `विभाषा लीयते'रित्यात्वमिह न प्रवर्तत इति ध्वनयति–लेतेति। वरीतेति। `वृ?तो वे'ति वा दीर्घः। लिङि– वूर्यात्। आत्मनेपदे तु वृषीष्ट। वरिषीष्ट। `लिङ्सिचोरात्मनेपदेषु' इति वेट्। `न लिङी'ति इटो दीर्घनिषेधः। इडभावपक्षे `उश्चे'ति कित्त्वान्न गुणः। लुङि अवारीत्। अवारिष्टाम्। अवारिषुः। `सिचि च परस्मैपदेषु' इति दीर्घनिषेधः। आत्मनेपदे तु अवरिष्ठ। अवरीष्ट। इडभावे सिचो लोपः। अवृत। रिच।णिजभावे अयमनिडित्याह–रेक्तेति। अशिक्षदिति। `शल इगुपधा'दिति क्सः। तृप। अनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति– तर्पितेति। छृदी। ईदित्वान्निष्ठायां नेट्। ऋवर्णान्नस्य णत्वम्। छृण्णः। छृण्णवान्।

अवाक्षीदिति। `अस्यतिवक्ती'ति लुका निर्देशादङ् नेति भावः। `वचिस्वपी'ति संप्रसारणम्। उच्यात्। धृष प्रसहने। केचित्त्वादितमाहुस्तन्मते धृष्टो, मुख्यमते तु धृषितः। नन्वत्र `निष्ठा शीङि'त्यादिना सेण्निष्ठायाः कित्त्वनिषेधाद्गुणेन भाव्यमिति चेत्। अत्राहुः– आदित्साहचर्यादादित एव। ञिधृषेत्यस्य तत्र ग्रहणात्।न च आदितो निष्टाया इड् दुर्लभ इति शङ्क्यं, `विभाषा भावादिकर्मणो'रिति तत्संभवादिति। इत्याधृषीया युजादयः। अथाऽदन्ता इति। वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तूच्चारणार्थ इत्यर्तः। स्थानिवत्त्वान्न वृद्धिरिति। `अचः परस्मिन्' इति सूत्रेणेत्यर्थः। न च स्थानिनि सति यत्कार्यं तदेव स्थानवदित्यनेनातिदिश्यते नत्वादेशप्रयुक्तं वार्यते, अन्यथा नायक पावक इत्यादि न सिध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम्, `अचः परस्मिन्' इत्यत्र स्थानिवदित्यनुवर्त्त्य शब्दाधिकारपक्षाश्रयेण भावाऽभावावुभावप्यतिदिश्यते इति सिद्धान्तात्। स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात्। `स्थानिनि सति यन्न भवति तदादेशेऽपि न भवती'त्यत्र तु `न पदान्ते'ति सूत्रस्थलोपादिग्रहणमेव लिङ्गिमिति दिक्।

Satishji's सूत्र-सूचिः

TBD.