TBD.
भ्राज भास भाष दीप जीव मील पीड इत्येतेषाम् अङ्गानां णौ चङि उपधाया ह्रस्वो भवति अन्यतरस्याम्। भ्राज अबिभ्रजत्, अबभ्राजत्। भास अबीभसत्, अबभासत्। भाष अबीभषत्, अबभाषत्। दीप अदीदिपत्, अदिदीपत्। जीव अजीजिवत्, अजिजीवत्। मील अमीमिलत्, अमिमीलत्। पीड अपीपिडत्, अपिपीडत्। भ्राजभासोरृदित्करणम् अपाणिनीयम्। काण्यादीनां चेति वक्तव्यम्। कण अचीकणत्, अचकाणत्। वण अवीवणत्, अववाणत्।
TBD.
–
392 भ्राजभास। `णौ चङ्युपधाया ह्यस्वः' इत्यनुवर्तते। तदाह - एषामिति। नित्ये उपधाह्यस्वे प्राप्ते विकल्पोऽयम्। ह्यस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्य आह– अपीपिडदिति। अत्र उत्तरखण्डे ह्यस्वः, पूर्वखण्डे तु दीर्घः। ह्यस्वाऽभावपक्षे तु लघुपरकत्वाऽभावात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घ इति मत्वाह- - अपीपीडदिति। अत्र उत्तरखण्डे दीर्घः। पूर्वखण्डे ह्यस्वः। नट अवस्पन्दने। इति। अवस्पन्दनं नाट\उfffद्म्। नाटयति। अनीनटत्। श्रथ प्रयत्ने। श्राथयति। अशिश्रथत्। सन्वत्त्वविधौ नेकहल्व्यवधनेऽपि लघुपरत्वं न विरुध्यते, अत्स्मृदृ?त्वरे'ति ईत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात्। अन्यथा अपप्रथदित्यादौ अनेकहल्व्यवधानाल्लघुपरत्वाऽभावादेव इत्त्वाऽप्रसक्त्या किं तेन ?। पृ? पूरणे। ननु ह्यस्वात् एवायं धातुर्निर्दिश्यतां, तावतैव पारयतीत्यादि सिद्धेः। न च णिजभावपक्षे परिता परिष्यतीत्यत्र इडर्थं दीर्गोच्चारणम्, ऋदन्तत्वे अनिट्कत्वप्रसिङ्गादिति वाच्यं, चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्त आह - दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गमिति। `पृ?धातो'रिति शेषः। णिचः पाक्षिकतवे तु परित#एत्यादौ पर्तेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः। ननु ह्यस्वान्तत्वेऽपि परितेत्यादौ इट् कुतो न स्यादित्यत आह- तद्धि सेट्कत्वायेति। हि = यतः, तत् = दीर्घोच्चारणं परितेत्यादौ सेट्कत्वार्थम् ऋदन्तत्वे तु इण्न स्यात्, `ऊदृ?दन्तै'रित्यनिट्कारिकासु ॠदन्तस्य पर्युदासेन ऋदन्तस्याऽनिट्कत्वावगमादिति भावः। ननु पृ?धातोर्णिचः पाक्षिकत्वज्ञापनस्य किं फलम् ?। श्नाविकरमश्नुविकरणपठिताभ्यामेव पृ?धातुभ्यां परितेत्यादिसिद्धेरित्यत आह– एवं चेति। उक्तरीत्या पृ?धातोर्णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः। [पारयति] परतीति। `उदोष्ठ\उfffद्पूर्वस्ये'त्युत्वं तु न भवति, पराभ्यां गुणवृद्धिभ्यां बाधादिति भावः। ऊर्ज बलेति। `सन्वल्लघूनी'ति सूत्रं द्वेधा व्यख्यातं प्राक्। तत्र चङि `न न्द्राः' इति निषेधात्, `जि' इति णिजन्तस्य द्वित्वे उत्तरखण्डे चङ्परे णौ लघोरभावात्प्रथमव्याख्यानेऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घः, और्जिजत्। द्वितीयव्याख्याने तु चङ्परे णौ यदङ्गम् ऊर्ज इत्येतत्, तदीयस्याभ्यासस्य चङमादाय वा णिचं लुप्तमादाय वा लघुपरकत्वाभ्यासस्य दीर्घः, और्जीजत्। एवमेव एवंजातीयकेषु द्रष्टव्यम्। प्रथ प्रख्याने। प्राथयतीति। णिचि उपधावृद्धिरिति भावः। नन्वस्य घाटादिकत्वेन मित्त्वाद्ध्रस्वः स्यादित्यत आह– नान्ये इति। ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः। घाटादिकस्य तु मित्त्वाद्धेतुमण्णिचि `प्रथयती'त्येव भवति। न च चौरादिकस्यैव मित्त्वार्थं घटादावनुवादः किं न स्यादिति वाच्यं, `नान्ये मितोऽहेतौ' इति निषेधादित्यलम्।
343 पृ? पूरणे। दीर्घोच्चारणमित्यादि। पारयतीत्यादिरूपाणि ह्यस्वोच्चारणेऽपि सिध्यन्तीति परतीत्याद्यर्थं दीर्घोच्चारणमित्यर्थः। अत्र वदन्ति– धातुपाठकृता पाणिनिना विशिष्यैव उदात्ता अनुदात्ताश्च पठिताः,न हि `ऋकारान्ताः सेट्का' इति तेन परिभाषितं येनेत्थं तस्याशयः कल्प्येत। कविकल्पद्रुमे त्वस्य नित्यण्यन्तत्वमुक्तमिति। एवं चाऽस्मिन्पक्षे दीर्घोच्चारमं व्यर्थमिति फलितम्। अन्ये तु दीर्घोच्चारमं परिता परीत्येत्यादौ `वृतो वे'ति इटो दीर्घविकल्पार्थम्। ततश्च णिज्विकल्पः सिद्ध एवेति परतीत्यादिरूपमाहुः। ऊर्ज। ऊर्जयति। बलवान्भवति। जीवति वेत्यर्थः।
TBD.