Table of Contents

<<7-4-16 —- 7-4-18>>

7-4-17 अस्यतेस्थुक्

प्रथमावृत्तिः

TBD.

काशिका

अस्यतेरङ्गस्य थुगागमो भवति अङि परतः। आस्थत्, आस्थताम्, आस्थन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

350 अस्यतेस्थुक्। शेषं पूरयति– अङि परे इति। `ऋदृशोऽङी'त्यतस्तदनुवृत्तेरिति भावः। थुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादस्धातोरन्तत्यावयवः। ननु पुषादित्वादेवाऽस्यतेश्च्लेरङि सिद्धे `अस्यतिवक्तिख्यातिब्योऽङित्यत्राऽस्यतिग्रहणं व्यर्थमित्याशङ्क्य निराकरोति- - अस्य पुषादित्वादित। तङर्थमिति। `पर्यास्थते'त्यत्र आत्मनेपदेऽङर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः, पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनपदे अप्रसक्तेरिति भावः। नन्वस्यतेः केवलपरस्मैपदित्वादात्मनपदं दुर्लभमित्यत आह– तङ् तु उपसर्गादिति वक्ष्यते इति। `पदव्यवस्थाया'मिति शेषः। यसु प्रयत्ने।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: अङि परे । A अङ्गम् consisting of the verbal root √अस् (असुँ क्षेपणे ४. १०६) takes the augment “थुक्” when followed by the affix “अङ्”।

उदाहरणम् – आस्थत् derived from √अस् (असुँ क्षेपणे ४. १०६). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अस् + लुँङ् 3-2-110
= अस् + ल् 1-3-2, 1-3-3, 1-3-9
= अस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= अस् + ति 1-3-3, 1-3-9
= अस् + त् 3-4-100
= अस् + च्लि + त् 3-1-43
= अस् + अङ् + त् 3-1-52
= अस् + अ + त् 1-3-3, 1-3-9
= अस् थुक् + अ + त् 7-4-17, 1-1-46
= अस् थ् + अ + त् 1-3-3, 1-3-9. Note: The उकारः in “थुक्” is उच्चारणार्थः।
= आट् अस् थ् + अ + त् 6-4-72, 1-1-46
= आ अस् थ् + अ + त् 1-3-3, 1-3-9
= आस्थत् 6-1-90