TBD.
रुदादिभ्यः परस्य सार्वधातुकस्य हलादेः अपृक्तस्य ईडागमो भवति। अरोदीत्। अरोदीः। अस्वपीत्। अस्वपीः। अश्वसीत्। अश्वसीः। प्राणीत्। प्राणीः। अजक्षीत्। अजक्षीः। पञ्चभ्यः इति किम्? अजागर्भवान्। अपृक्तस्य इत्येव, रोदिति।
TBD.
–
306 रुदश्च। `नाभ्यस्तस्य' त्तः पिति सार्वधातुके इति, `उतो वृद्धि'रित्यतो हलीति, `गुणोऽपृक्ते' इत्यतोऽपृक्ते इति, `ब्राउव ई'डित्यत ईडिति चानुवर्तते। `रुद' इति पञ्चमी। `रुदादिभ्य' इति विवक्षितमित्यभिप्रेत्य सूत्रशेषं पूरयति- - हलादेरित्यादिना।
–
TBD.