Table of Contents

<<7-3-8 —- 7-3-10>>

7-3-9 पदान्तस्य अन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

श्वादेः अङ्गस्य पदशब्दान्तस्य अन्यतरस्यां यदुक्तं तन् न भवति। श्वपदस्य इदम् श्वापदम्, शौवापदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1540 प्रसङ्गादाह–पदान्तस्यान्यतरस्याम्। `\उfffदाआदेरिञी'त्यस्यमादुत्तरं सूत्रमिदम्। पदं-पदशब्दोऽन्तो यस्येति विग्रहः। तदाह–पदशब्दान्तस्येति ऐज्वेति। निषेधविकल्पे सति विधिविकल्पः। फलित इति भावः। \उfffदाआपदस्येति। शुनः पदमिव पदं यस्येति विग्रहः। `शुनो दन्तदंष्ट्रे'त्यादिना दीर्घः। शौवापदमिति। `तस्येद'मित्यण्। `वृद्धाच्छः' इति तु न , अनभिधानादित्याहुः। अन्ये तु \उfffदापुच्छवद्दीर्घाऽभावे अणमाहुः।

तत्त्वबोधिनी

1196 \उfffदाआपादस्येति। `अन्येषामपि दृश्यते'इति दीर्घः। धावुक इति वेतनादिगणे धनुर्दण्डेति पठ\उfffद्ते, तच्च सङ्घातविगृहीतार्थम्। तथा च `धानुर्दण्डिकः', `दाण्डिक' इत्यप्युदाहार्यम्।

Satishji's सूत्र-सूचिः

TBD.