Table of Contents

<<7-3-67 —- 7-3-69>>

7-3-68 प्रयोज्यनियोज्यौ शक्यार्थे

प्रथमावृत्तिः

TBD.

काशिका

प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते। शक्यः प्रयोक्तुम् प्रयोज्यः। शक्यो नियोक्तुम् नियोज्यः। शक्यार्थे इति किम्? प्रयोग्यः। नियोग्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

701 प्रयोज्यनियोज्यौ। शक्यार्थे ण्ये क्वुत्वाऽभावो निपात्यते। `शकि लिङ् चे'ति कृत्यानां शक्यार्थेऽपि विहितत्वाण्ण्यदन्तस्य शक्यार्थकत्वमपि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.