Table of Contents

<<7-3-68 —- 7-3-70>>

7-3-69 भोज्यं भक्ष्ये

प्रथमावृत्तिः

TBD.

काशिका

भोज्यम् निपात्यते भक्ष्ये ऽभिधेये। भोज्यः ओदनः। भोज्या यवागूः। इह भक्ष्यम् अभ्यवहार्यमात्रम्। भक्ष्ये इति किम्? भोग्यः कम्बलः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

702 भोज्यं भक्ष्ये। भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते। इति प्रासङ्गिकम्। अथ प्रकृतम्– लपिदभिभ्यां चेति। वार्तिकमिदम् `ऋहलोण्र्य'दिति सूत्रस्थम्। `पोरदुपधा' दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः।

तत्त्वबोधिनी

583 भोज्यम्। भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, नतु खरविशदमभ्यवहार्यम्।तेन भोज्या यवागूरित्यपि भवतीत्याहुः। भोग्यमन्यदिति। पालनीयमुपभोग्यं चेत्यर्थः।

प्राप्तस्य यतोऽपवादः। जयादित्यस्तु– `आसुयुवपरिपी'ति सूत्रे लपं प्रक्षिप्य `रपिलपित्रपी'ति पठित्वाऽनुक्तसमुच्चयार्थेन चकारेण दभेः सङ्ग्रह इत्युक्तवान्,तत्र वैषम्येण व्याख्यानं निर्बीजं, भाष्यविरोधश्च स्पष्ट एवेति बोध्यम्। स्वीकार्य इति। `कास्यनेकाच आम्वक्तव्यश्चुलुम्पाद्यर्थ'मिति वार्तिकबलाद्यथा चुलुम्पादिभ्य आम् स्वीक्रियते तद्वदिति भावः। तथा च प्रयुज्यते `नता नशन्ति न दभाति तस्करः' , `विष्णुर्गोपा अदाभ्यः' इत्यादि।

Satishji's सूत्र-सूचिः

Video

वृत्तिः भोग्यमन्यत् । The form “भोज्य” is used in the sense of “edible.” In any other sense the form is “भोग्य”।

उदाहरणम् - भोज्यम् derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७).

भुज् + ण्यत् 3-1-124
= भुज् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= भोज्य 7-3-86. Note: 7-3-69 prevents 7-3-52 from applying here.

“भोज्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46