Table of Contents

<<7-3-66 —- 7-3-68>>

7-3-67 वचो ऽशब्दसंज्ञायां

प्रथमावृत्तिः

TBD.

काशिका

वचो ऽशब्दसंज्ञायां ण्यति परतः कुत्वं न भवति। वाच्यमाह। अवाच्यमाह। अशब्दसंज्ञायाम् इति किम्? अवघुषितं वाक्यमाह।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

700 वचोऽशब्दसंज्ञायाम्। वचधातोण्र्ये कुत्वं न, शब्दसंज्ञां वर्जयित्वेत्यर्थः। वाच्यमिति। `वस्त्वि'ति शेषः। `अशब्दसंज्ञाया'मित्यस्य प्रयोजनमाह– शब्दाख्यायां तु वाक्यमिति। `एकतिङ् वाक्य'मिति संज्ञाशब्दोऽयमिति भावः। `प्रवाच्य'मित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः, `यजयाचे'त्यत्र प्रवचेति विशिष्योपादनात्, असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात्। एतदभिप्रायेणैव `प्रवाच्यं ग्रन्थविशेष' इत्युक्तं प्राक्।

तत्त्वबोधिनी

582 वाक्यमिति। `तिङ्सुबन्तचयो वाक्यम्'। भोज्यम्। भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, न तुखरविशदमभ्यवहार्थम्। तेन भोज्या यवागूरित्यपि भवतीत्याहुः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः वचोऽशब्दसञ्ज्ञायां ण्यति परतः कुत्वं न। When followed by the affix “ण्यत्”, the चकारः of a अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place of √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) by 2-4-53 ब्रुवो वचिः) – when not used as a noun meaning speech/sentence – does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute.)

उदाहरणम् – वाच्यम् derived from the verbal root √वच् (वचँ परिभाषणे २. ५८).

वच् + ण्यत् 3-1-124
= वच् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= वाच् + य 7-2-116. Note: 7-3-67 stops 7-3-52
“वाच्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46