TBD.
यज याच रुच प्रवच ऋच इत्येतेषां ण्ये परतः कवर्गादेशो न भवति। यज याज्यम्। याच याच्यम्। रुच रोच्यम्। प्रवच प्रवाच्यम्। ऋच अर्च्यम्। ऋदुपधादपि ऋचेरत एव निपातनात् ण्यत् भवति। प्रवचग्रहणं शब्दसंज्ञार्थम्। प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थो ऽस्ति। अपरे पुनराहुः, उपसर्गपूर्वस्य नियमार्थम्, प्रपूर्वस्य एव वचेरशब्दसंज्ञायां कुत्वप्रतिषेधो यथा स्यात्, अन्योपसर्गपूर्वस्य मा भूतिति। अविवाक्यमहः इति पठन्ति। एतत् तु विशेष एव इष्यते, दशरात्रस्य यद् दशममहः। अन्यत्र अविवाच्यम् एव भवति। ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम्। त्याज्यम्।
TBD.
–
699 यजयाच। ण्ये कुत्वं नेति। शेषपूरणमिदम्। यज, या, रुच, प्रवच, ऋच् एषां द्वन्द्वात् षष्ठी। एषां ण्ये परे `चजोः कु घिण्ण्यतो'रिति कुत्वं नेत्यर्थः। ननु अच्र्यमित्यत् र कथं ण्यत्, `ऋदुपधाच्चाऽक्लृपिचृते'रिति ऋदुपधत्वलक्षस्य ण्यदपवादत्वादित्यत आह– ऋदुपधत्वेऽपीति। त्यजिपूज्योश्चेति। `ण्ये कुत्वं ने'ति शेषः।
581 यज। यज देवपूजादौ। टुयाचृ याच्ञायाम्। रुच दीप्तौ। प्रपूर्वो वच परिभाषणे। ऋच स्तुतौ। ग्रन्थविशेष इति। तथा च संज्ञेयमिति `वचोऽशब्दसंज्ञाया'मित्यस्याऽप्रसङ्गान्निषेधोऽयमिति भावः। ज्ञापकादिति। सरूपत्वाद्वासरपविधिना ण्यद्भवेदिति न शङ्कनीयमिति भावः।
वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम्। Video
The verbal root √त्यज् (त्यजँ हानौ १. ११४१) should be included in the list of verbal roots whose चकारः/जकारः does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute) when followed by the affix “ण्यत्”।
उदाहरणम् – त्याज्यम् derived from the verbal root √त्यज् (त्यजँ हानौ १. ११४१).
त्यज् + ण्यत् 3-1-124
= त्यज् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= त्याज् + य 7-2-116. Note: The वार्तिकम् (under 7-3-66) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् stops 7-3-52
“त्याज्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46