Table of Contents

<<7-3-64 —- 7-3-66>>

7-3-65 ण्य आवश्यके

प्रथमावृत्तिः

TBD.

काशिका

ण्ये परतः आवश्यके ऽर्थे कवर्गो न भवति। अवश्यपाच्यम्। अवश्यवाच्यम्। अवश्यरेच्यम्। आवश्यके इति किम्? पाक्यम्। वाक्यम्। रेक्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

698 ण्य आवश्यके। कुत्वं नेति। शेषपूरणमिदम्। आवश्यकेऽर्थे यो ण्यस्तस्मिन् परे `चजोः कु घिण्ण्यतो'रिति कुत्वं नेत्यर्थः।

तत्त्वबोधिनी

580 ण्य आवश्यके। अवश्यंभाव— आवश्यकम्। मनोज्ञादित्वाद्वुञ्। `अव्ययानां भमात्रे टिलोपः'। अवश्यपाच्यमिति। `आवश्यकाधमण्र्ययोर्णिनिः'`कृत्याश्चे'ति ण्यत्। आवश्यकशब्दोऽर्थद्योतनार्थो न तु प्रयोगार्थः। तेनाऽर्थप्रकरणादिगम्येऽपि तस्मिन् ण्यत्, कुत्वाऽभावश्च भवति। यथा `अशोच्यानन्वशोचस्त्व'मिति। केचित्तु— शोचितुमर्हाः शोच्याः, न शोच्या अशोच्या इति भगवद्गीतास्विदं व्याचक्षते, तच्चिन्त्यम्। `अर्हे कृत्यतृचश्चे'ति ण्यति `चजोः' कुत्वप्रसङ्गात्। `चजो'रिति कुत्वं `निष्ठायामनिटः' इति वार्तिकमते तु सम्यगेवेति दिक्।

Satishji's सूत्र-सूचिः

TBD.