Table of Contents

<<7-3-63 —- 7-3-65>>

7-3-64 ओक उचः के

प्रथमावृत्तिः

TBD.

काशिका

उचेर् धातोः के प्रत्यये ओकः इति निपात्यते। किम् पुनरत्र निपात्यते? कुत्वं गुणश्च। न्योकः शकुनतः। न्योको गृहम्। कर्तरि इगुपधलक्षणः कः प्रत्ययः। अधिकरणादौ तु कारकान्तरे घञर्थे कविधानम् इति। किम् अर्थं पुनरयं घञ्येव न व्युत्पद्यते? स्वरार्थम् अन्तोदात्तो ऽयम् इष्यते, घञि सति आद्युदात्तः स्यात्। दिवौकसः, जलौकसः इत्येवम् आदावप्यसुनि प्रत्यये उणादयो बहुलम् 3-3-1 इति कुत्वं द्रष्टव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

579 घञा सिद्धे इति। `उच समवाये' इत्यस्माद्धञि `चजो'रिति कुत्वे लघूपधगुणे च `ओक ' इति रूपं सिध्यति, परं तु `ञ्नित्यादिर्नित्य'मित्याद्युदात्तत्वमनिष्टं स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.